________________
___टोकासहितं। क्रमाक्रमौ निवर्तयति तयोस्तेन व्याप्तत्वात् , तन्निवृत्तौ तनिचिसिद्धेस्तौ च निवर्तमानौ क्रियां निवयतस्तस्यास्ताभ्यां व्याप्तत्त्वात् । क्रियापाये च न कर्ता क्रियाधिष्ठस्य द्रव्यस्य स्वतंत्रस्य कर्तत्वसिद्धः । कर्तुरभावे च न कार्य स्वर्गापवर्गलक्षणमिति वृथा श्रमोऽयं तपोलक्षणस्तदर्थ क्रियमाणः स्यात् जिन ! स्वामिन् ! बीर ! तव द्विषां सर्वथैकान्तवादिनां सर्वेपामिति संक्षेपतो व्याख्येयम्।
ननु च वस्तुनि क्षणिके विकारस्य हानिरवस्थितस्य द्रव्यस्याभावात, ध्रुवे च पूर्वाकारविनाशोत्तराकारोत्पादाभावात्, कालान्तरस्थेतु कथं तत्रोभयसंभवादिति केचित् । तेऽपि न प्रामाणिकाः। प्रागसत एवोत्पन्नस्य कालान्तरस्थस्यापि पश्चादसवैकान्ते सर्वथैकक्षणस्थाद्विशेषाभावादनन्वयत्वस्य तदवस्थत्वात् । ननु नित्यस्यात्मनोन्तस्तत्वस्य पूर्वानुभूतस्मृतिहेतोः प्रत्यभिज्ञातुरर्थक्रियायां व्याप्रियमाणस्य कर्तुः कार्यस्य च तेन क्रियमाणस्य घटनाद्विशेषः कालान्तरस्थस्य क्षणिकादिति केचित् । नात्मनोऽपि नित्यस्यैककर्तृत्वानुपपत्तेः । बुद्धय द्यतिशयसद्भावात् कर्त्तात्मेति चेत् , न, बुद्धी. च्छाद्वेषप्रयत्नसंस्काराणामात्मनोऽन्तिरत्वे खादिवत्कत्तत्वानुपपत्तेः, इदं मे सुखसाधनं दुःखसाधनं चेति बुद्धया खलु किंचिदात्मा जिघृक्षति वा जिहासति वा ग्रहणाय हानाय वा प्रयतमानः पूर्वानुमयसंस्कारात्कार्यस्योपादाता हाता वा करेंच्यते सुखदुःखे च यदात्मनो भिन्ने स्यातां खादेरिव न तदा
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org