SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ युक्त्यनुशासनं। धर्मिधर्मात्मकवस्तुप्रतिभासितपृष्टभाविविकल्पनज्ञानोत्थं धर्मों धर्मोऽयमिति धर्मिधर्मव्यवहारस्य प्रवृत्तेस्तेन च सकलकल्पनापोडेन प्रत्यक्षेण निरंशस्वलक्षणस्यादर्शनमसिद्धं कथं तद' भावं साधयेदिति बदन्तं प्रत्याहुः-- प्रत्यक्षनिर्देशवदप्यसिद्ध मकल्पकं ज्ञापयितुं शक्यम् । विना च सिद्धेन च लक्षणार्थों न तावकद्वेषिणि वीर ! सत्यम् ॥३३॥ टीका-प्रत्यक्षेण निर्देशः प्रत्यक्ष निर्देशा, प्रत्यक्षतो दृष्ट्वा नीलादिकमिदमिति वचनमन्तरेणांगुल्या प्रदर्शनमित्यर्थः । स प्रत्यक्ष निर्देशोऽस्यास्तीति प्रत्यक्षनिदेशवत् । तदर सिद्धं । कुत एतत् , यस्मादकल्पकं ज्ञापयितुं कुतश्चिदम. शक्यं, हि यस्मादर्थे । तेनेदमुक्तं भवति-यस्मादकल्पकं कल्पनापोटं, न विद्यते कल्पः कल्पनाऽस्मिन्निति विग्रहात् , तद् झापयितुं संशयितेभ्यो विनेयेभ्यः प्रतिपादयितुं न शक्यं, तस्माप्रत्यक्षनिर्देशवदपि तत्त्वमिदपसिद्धमिति । तद्धि प्रत्यक्षमकल्पकं न तावत्प्रत्यक्षतो ज्ञापयितुं शक्यं तस्य परासंवेद्यत्वात् । नाऽप्यनुमानात्तत्मतिबद्धलिंगप्रतिपत्तेरसंभवात्परेषामगृहीतलिंगलिंगिसम्बंधानामनुमानज्ञानेन ज्ञापयितुमशक्तेः । स्वयंप्रतिपन्नकल्पनापोहप्रत्यक्षप्रतिबद्धलिंगानां तु तज्ज्ञापनानर्थक्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy