________________
युक्त्यनुशासनं। विषयत्वात् , यत्तु न सत्तासमवायभाक्तन्न सत्सत्ययविषयो यथा प्रागभावाद्यसत्तत्वं । सत्प्रत्ययविषयाश्च द्रव्यादीनि तस्मात्सत्तासमवायभांजीति द्रव्यादिषु सत्त्वस्य समवायप्रतीति: सच्चासमवायस्य बाधिकास्ति ततो न द्रव्यादीनामसत्रं सच्चासमवायलक्षणं साधयितुं शक्यं नास्तित्वलक्षणासत्ववदिति केचित् । तेऽपि न परीक्षकाः । सत्प्रत्ययविषयत्वस्य हेतोः परेषां सामान्यादिभिर्व्यभिचारात् तेषु सत्वसमवायासंभवेऽपि भावात् । यदि पुनर्मुख्यसत्प्रत्ययविषयत्वस्य हेतुत्वानोपच. रितसत्पत्ययविषयत्वेन व्यभिचारोद्भावनं युक्तमतिप्रसंगादिति निगद्यते तदा सामान्यादिषु कुतः सत्प्रत्ययविषयत्वमुपचरितमिति वक्तव्यं । स्वरूपसवानिमित्तत्त्वादिति केचित् । व्याहतमेतत् । स्वरूपसत्चनिमित्तं चोपचरितं चेति को ह्यबालिशः स्वरूपसचनिमितं सत्प्रत्ययविषयत्वमुपचरितमर्थान्तरभूतसत्तासंबंधत्वान्मुख्यमिति ब्रूयादन्यत्र जडात्मनः, यष्टिस्वरूपनिमित्तं हि यष्टौ यष्टिप्रत्ययविषयत्वं मुख्यं लोके प्रसिद्ध, यष्टिसंबंधात्तु पुरुषे गौणमिति मुख्योपचरितव्यवस्थातिक्रपादनादेयवचनताऽस्य स्यात् । स्यादाकूतं ते सत्तासमवायनिमित्तं सत्पत्ययविषयत्वं द्रव्यादिषु मुख्यं तद्विशेषणसत्वग्रहणपूर्वकत्वाद्विशेषणप्रत्ययनिपित्तस्य विशेषप्रत्ययस्य मु. ख्यत्वसिद्धेः यष्टित्वविशेषणग्रहणनिमित्तकविशेष्ययष्टिप्रत्ययवत् सत्त्वविशेषणग्रहणमंतरेण सामान्यादिषु सत्प्रत्यय
१ 'यष्टिसंबंधवत्सु पुरुषेषु' इति पुस्तकांतरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org