________________
युक्त्यनुशासनं ।
बादिनस्त्वत्तः परेषामपि शून्यमनुपपन्नमपि संप्राप्तमिति प्रति
पादयन्ति श्रीसूरय:
५४
-
व्यतीतसामान्यविशेषभावाद्विश्वाभिलापार्थविकल्पशून्यम् । खपुष्पवत्स्यादसदेव तत्त्वं
प्रबुद्धतत्त्वाद्भवतः परेषाम् ॥ २६ ॥
टीका - ये तावद् व्यतीत सामान्यभावात्सर्वतो व्यारवानर्थानाचक्षते भेदवादिनः सौगताः प्रबुद्धतन्त्राद्भवतो वीरास्परे तेषां सामान्याहवे विशेषाणामभावः प्रसज्येत तेषां सामान्यनांतरीयकत्वात्तदभावे तद्भावायोगात् सर्वथा निरुपाख्यैमेवायातं । येऽपि च सामान्यमेव प्रधानमेकं प्रवदंति महदहंकारादिविशेषः । तद्व्यतिरेकेणा सच्वा तेषामपि भवतः परेषां सकल विशेषाभावे सामान्यस्याऽपि तदविनाभाविनोऽसत्त्वप्रसंगात् व्यक्ताव्यक्तात्मनश्च भोग्यस्याभावे भोक्तुरप्यात्मनोऽसंभव इति सर्वशुन्यत्वमनिच्छतोऽपि सिध्येत् । व्यक्ताव्यक्तयोः कथंचिद्भेदप्रतिज्ञाने तु स्याद्वादन्यायानुसरणान्न वदनाथवाक्यं स्यात् तथा परस्पर निरपेक्ष सामान्य विशेषभाववादिनो योगाः कथंचित्सामान्यविशेषभावानभ्युपगमात् व्यतीतसामान्यविशेषभावाः प्रसिद्धा एव भवत: परे तेषामपि खपुष्पareदेव मायातं विश्वाभिलापार्थविकल्पशून्यत्वात् व्यश्री सामान्यभाववादिवत् व्यतीतविशेषभाववादिवच्च । सर्वथा
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org