________________
टीकासहितं । प्यभावात् तदनुमातुश्च चित्तविशेषलिंगदर्शिनोऽसंभवात् । न चाऽप्य दृष्टो हेतुः कल्पनारोपितः संभवति तत्कल्पनाया अपि अनुमानकाले विनाशात् ।व्याप्तिग्रहणकाललिंगदर्शनविकल्पविनाशेपि तद्वासनासद्भावात् अनुमानकाल लिंगदर्शनप्रबुद्धवासनासामादनुमानं प्रवर्तत एवेति चायुक्तं हेतुहेतुमद्भावव्याप्तिग्राहिचित्तादनुमावृचित्ते संतानाभिन्ने वासनानुपपत्तेः सन्तानभिन्नमिव सन्तानभिन्न चित्तं तस्मिन्न हि वासनास्ति, जिनदत्तदेवदत्तंसतानभिन्नेपि चित्ते वासनास्तित्वानुषंगात् । देवदत्तचित्तेन साध्यसाधनव्याप्तौ गृहीतायां जिनदत्तस्य तत्साधनदर्शनात् साध्यानुमानमासज्येताविशेषात् । तथा च वासना नास्ति संतानभिन्ने चित्ते तथा न तत्कारणकार्यभावः संभवतीति क्रियाध्याहारः। संतानभिन्नयोरपि चित्तयोः कार्यकारणभावे देवदत्तजिनदाचित्तयोरपि कारणकार्यभावः प्रवर्तेत । सामान्यरूपाणामेव चिक्षणानामेकसंतानवर्तिनां कार्यकारणभावो न तु भिन्नसन्तानवर्तिनामसमानरूपाणामिति चेत्, न तर्हि चित्तक्षणाः क्षणविनश्वरा निरन्वयाः केन समानरूपाः ? न केनापि स्वभावेन ते समानरूपा इत्यर्थः । तथाहि-यदि तावत् सत्स्वभावेन चित्स्वभावेन वा समानरूपाः स्युस्तदा भि
संतानवर्तिनोऽपि तथा भवेयुरविशेषात् । यदि पुनरत तुभ्यः संतानान्तरवर्तिभ्यश्चित्तक्षणेभ्यो व्यावृत्तेन तद्धत्वपेक्षित्वेन समानरूपा: केचिदेवैकसंतानवर्तिनश्चितक्षणाः इष्यन्ते पूर्वपूर्वस्यो
१ तदनुमातुः स्वचित्तविशेषस्य' इति पुस्तकांतरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org