________________
युक्त्यनुशासनं। स्यात् । प्रकृतिकृतविकारोपकारेण पुरुषस्योपकारान्तरकरणेऽनवस्थानसंगात् । ननु चन पुरुषस्योपकारकरणान्महदादिः पुरुपार्थोऽभिधीयते सांख्यैर्नारि पुरुषेण तस्योपकारसंपादनात सर्वथा तस्योदासीनत्वात् । किं तर्हि पुरुषेण दर्शनात् पुरुपार्थः कथ्यते । पुरुषभोग्यत्वादिति केचित, तेऽपि न परीक्षकाः सर्वथोदासीनस्य पुरुषस्य भोक्तत्वविराधात् दृश्यस्य भोग्यखायोगात् । ननु च वीतरागसर्वज्ञदर्शनवत् पुंसो विषयदर्शनं भोगः, स च शुद्धस्यात्मनः संभवत्येव रागादिमलामावात् । तद्विषयस्य च भोग्यत्वं निर्विषयस्य भोगासंभवात्ततः सर्वथोदासीनस्यापि भोक्तृतं न विरुध्यते इति चेत् न, परिणामित्वप्रसंगात् स्याद्वादिनः सर्वज्ञवत्, स हि सर्वज्ञः पूर्वोत्तरस्वभावत्यागोत्पादनाभ्यामवस्थितस्वभावः परिणाम्येव सर्वार्यान्पश्यति नान्यथा, प्रतिसमयं दृश्यस्य परिणामित्वे द्रष्टुरपरिणामानुपपत्तेर्न चायं दृश्यमर्थपपरिणामिनं वक्तुं समर्थः स्वयं तस्य परिणामित्वोपगमात् सिद्धांतपरित्यागानुषंगात् । चिन्छक्तिरपरिणामिन्येति चेत्, नादर्शितविषयत्वत्यागेन दर्शितविषयत्वोपादानादवस्थिताया एव तस्याः परिणामित्वसिद्धेः। एतेनाप्रतिसक्रमत्वादपरिणामिनी चेतनेति प्रत्युक्तं । प्रतिविषयं दर्शिनविषयत्वे संक्रमात् तथा बुद्धेरेव प्रतिसक्रमो न तु चिच्छक्तेरिति चेत्, न बुद्धरप्यप्रतिसंक्राप्रसंगात् विषयस्यैव अतिसंक्रमप्रसंगात, बुद्धयावसीयमानस्य विषयस प्रतिसक्रमे बुद्धेः कथमप्रतिसंक्रम इति चेत्, तर्हि बुद्धेः प्रतिदर्शि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org