________________
युक्त्यनुशासनं। माणैः प्रकृत प्रांजसोऽर्थोऽस्मिन्निति नयप्रमाणप्रकृतांजसार्थ मतम् । नयप्रमाणैः सुनिश्चितासंभवद्वाधकविषयमित्यर्थः । तथाविधमपि कुतः सिद्धमिति चेत् यस्मादधृष्यमन्यैर खिले प्रवादैरिति निवेद्यते । दर्शनमोहोदयपरवशैः सर्वथैकान्तवादिभिः प्रकलितावादा: प्रवादा: सर्वथैकान्तवादास्तैरखिलैरखिलदेशकालपुरुषगतैरधृष्यमबाध्यमिति निश्चयः । कस्मात्तैः कपिता वादा न पुनः परमार्थावभासिन इति चेत्, यस्मात् त्वदीयमतादन्ये वाह्याः सम्यगनेकान्तमताब्धे या मिथ्यैकान्ता भवन्ति ते च कल्पितार्थाः प्रसिद्धास्तद्वादाः कथमिछ परमार्थपथप्रस्थापकाः स्युर्यतम्तैरवाध्यं त्वदीयं मतं न स्यात् न हि मिथ्यावादैः सम्यग्वादो बाधितुं शक्योतिप्रसंगात् । ननु च द्रव्यार्थिकनयेन निश्चितीर्थो न पारमार्थिको मदीयमतस्य सिद्धः परेषां संभवद्धाधकत्वात् , पर्यायार्थिकनयैस्तु निश्चितार्थवत् । तथाहि-न जीवादिकद्रव्यमेकमनपायि वास्तवं क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् । नहि द्रव्यस्य देशकृतस्तावत् कश्चित् क्रमः संभवति निष्क्रियत्वात्तस्य देशान्तरगमनायोगात, सक्रियत्वे सर्वव्यापकत्वविरोधात् । नाऽपि कालकृतः शाश्वतिकत्वात्सकल कालव्यापित्वात् प्रतिनियतकालत्वे नित्यत्वविरोधात् द्रव्यत्वाघटनात् । स्वयमक्रमस्य सहकारिकारणक्रमापेक्षः क्रम इत्यप्यसारं, सहकारिभ्यःकंचिदप्यतिशयमनासादयतस्तदपेक्ष नुपपत्तेतिप्रसंगात् । सहकारिकृतमुपकारमात्मसात्कुर्वतः कार्यत्वप्रसंगादनित्यत्वापतेः। यदि तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org