________________
टीकासहित। अवापिथ ब्रह्मपथस्य नेता
महानितीयलतिवक्तुमीशाः॥४॥ ज्ञानदर्शनावरणविगमादमलज्ञानदर्शनाविभूतिः शुद्धिस्त-- थान्तरायविनाशाद्वीर्यलब्धिः शक्तिस्तयोरुदयस्य प्रकर्षस्य काष्ठाऽवस्था तां जिन ! भगवन् ! अवापिथ त्वं । किविशिष्टां तुलाव्यतीतामुपमातिक्रान्तां तथा शान्तिरूपांप्रशमसुखात्मिका सकलमोहक्षयोद्भूतत्वात्ततो ब्रह्मपथस्य नेता महान् परमात्मेति, इयन्मात्रं प्रतिवक्तुमीशा: समर्था इत्यनेन यावती स्वशक्तिः भगवत्संस्तवने तावती मूरिभिनिवेदिता। तत्र शुद्धिः कचित्पुरुषविशेषे पराकाष्ठामधितिष्ठनीति प्रकृष्यमाणत्वात्परिमाणवत् तथा शक्तिः कचित्पुरुषविशेषे परां काष्ठामवाप्नोति प्रकध्यमाणत्वात्परिमाणवदेवेति शुद्धिशक्त्योः प्रकर्षपर्यन्तं गमन प्रतिवर्ण्यते न पुनर्ज्ञानं कचित्पराकाष्ठां प्रतिपद्यत इति साध्यते । मतिज्ञानस्य श्रुतज्ञानस्य च धर्मित्वे परस्य सिद्धसाध्यतानुषंगात स्याद्वादिनश्च स्वेष्टसिद्धरभावात् । अवध्यादिज्ञानत्रयस्य धर्मित्वे परेषां धर्म्यसिद्धिः । सर्वज्ञवादिना साधनवैफल्यं तस्सिद्धेरिव साध्यत्वात । ज्ञानसामान्यधर्मित्वेऽपि मीमांसकस्य सिद्धसाधनमेव चोदनाज्ञानस्य परमप्रकर्षप्राप्तस्य सिद्धत्वात् । शुद्धस्तु धर्मित्वनिर्देशै नोक्तदूषणावकाशः परेषां तत्र विवादाद सिद्धसाध्यतानुषंगामावात् वादिनः स्पेष्टसिद्धरप्रतिबंधात् सर्वज्ञत्वसामान्यस्य प्रसिद्धः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org