________________
टोकासहितं। प्रागेव तत्र शोरभावप्रसंगात, न चैवं, तथा प्रतीतेरर्थनिज्ञासायां हि स्वहेतोर्थज्ञानमुत्पद्यते । ज्ञानजिज्ञासायान्तु पश्चादेव ज्ञाने ज्ञानं प्रतीतेरेवंविधत्वादिति। तदप्यसत्यम् । स्वयमर्थज्ञानं ममेदमित्यप्रतिपत्तौ तथा प्रतीतेरसंभवात् प्रतिपत्तौ तु स्वतस्तत्प्रतिपत्तिानान्तात् वा । स्वतश्चेत् ? स्वार्थपरिच्छेदकस्वसिद्धिवेदनस्य वस्तुबलप्राप्ता कचिदर्थे जिज्ञासायां सत्यामहमुत्पन्नमिति स्वयं प्रतिपद्यमान हि विज्ञानं स्वार्थपरिच्छेदकमभ्यनुज्ञायते नान्यथेति जैनमतसिद्धिः। यदि पुनानान्तरात्तथा प्रतिपत्तिस्तदाऽपि तदर्थज्ञानमज्ञातमेव मयार्थस्य परिच्छेदकमिति स्वयं ज्ञानान्तरं प्रतिपद्यते चेत्तदेव स्वार्थपरिच्छेदकं सिद्धं, न प्रतिपद्यते चेत्कथं तथा प्रतिपत्तिः ?
किं चेदं च विचार्यते-ज्ञानान्तरमर्थज्ञानमर्थमात्मानं च प्रतिपद्याज्ञातमेव मया ज्ञातमर्थ जानातीति प्रतिपाद्य प्रतिपाद्य वा प्रथमे पक्षेऽर्थस्य तत् ज्ञानस्य स्वात्मनः स्वपरिच्छेदकत्वविषयं ज्ञानान्तरं प्रसज्येन । द्वितीयपक्षे पुनरतिप्रसंगः, सुखादिकमज्ञातमेवादृष्टं मया कगेतीत्यपि जानीयादविशेषात्ततः किंबहुनोतेन ज्ञानमर्थपरिच्छेदव तामिच्छत स्वपरिच्छेदक मेषितव्यम् । यथेश्वरज्ञानं स्वपरिच्छेदकत्वाभावेर्थज्ञानत्व नुपपत्तेः । तथा चैवं प्रयोगः कर्तव्य:-विवादाध्यासितं ज्ञानं स्वपरिच्छेदकमर्थज्ञानत्वात्, यदर्थज्ञान तत्स्वपरिच्छेदकं यथेश्वरज्ञानं । अर्थज्ञानंच विवादाध्यास्तिं तस्मात् स्वपरिच्छेदकं । न चक्षुरादिना हेतोव्येभिचारस्तस्याज्ञानत्वात्, नाऽपि मच्छितादिज्ञानेनार्थवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org