________________
टीकासहितं! सिद्धेः सकलवेदिविज्ञानस्य परम्परयाप्युपेक्षामात्रफलत्वात् । तथा चोक्तम्
उपेक्षा फलमाद्यस्य शेषस्यादानहानधीः।
पूर्वा वाऽज्ञाननाशो वा सर्वस्यास्य स्वगोचरे ॥ इति नित्योपयुक्तत्वात्सर्वज्ञविज्ञानस्य स्वार्थव्यवसायात्मकत्वमेव युक्तमन्यथा तस्याकिंचित्करत्वप्रसंगात् तद्वदक्षादिज्ञानानामपीति न किंचिदव्यवसायात्मकं तत्वज्ञानमस्ति येन साधनव्यभिचारः स्यात् । अत्रापरः प्राह-सत्यम् , व्यवसायात्मकं तत्वज्ञानं अर्थव्यवसायलक्षणत्वात् , न तु स्वव्यवसायात्मकं तस्य ज्ञानांतरेण व्यवसायादिति । सोऽपि न प्रेक्षावतामभिधेयवचनोऽनवस्थानुषंगत्वात् । कस्यचिदर्थज्ञानस्य हि येन ज्ञानेन व्यवसायस्तन्न तावदव्यवसितमेव तस्य व्यवसायकं परात्मज्ञानवत, झानान्तरेण तद्व्यवसाये तु तस्यापि ज्ञानान्तरेण व्यवसाय इत्यनवस्थानं दुर्निवारं । ननु च ज्ञानस्य स्वविषये न्यवसितिजनकत्वं व्यवसायात्मकत्वं तच्च ज्ञानान्तरेण व्यवसितस्याऽपि युक्तं सन्निकर्षवत् । न हि सनिकर्षादिः केनचिद् व्यवसितो व्यवसितिमुपजनयति तद्वदर्थज्ञानं ज्ञानान्तरेणाव्यवसितमेव व्यवसितिमुत्पादयतीति कश्चित् । सो ऽपि न पातीतिकवचनोऽर्थज्ञानस्यापि ज्ञानान्तरेणाव्यवसितस्यैवार्थव्यवसितिजनकत्वप्रसंगात ज्ञानज्ञानपरिकल्पनवैय
र्थ्यात् । तथा लिंगस्य ज्ञानेनाव्यवसितस्य स्वलिंगिनि, शब्द: स्याभिधेये, सादृश्यस्योपमेये, व्यवसितिजनकत्वसिद्धेस्तद्वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org