________________
टोकासहित। वृत्तिबुद्धेरध्यवसीयते । ननु चायं विशेषोऽस्माद्विशेषान्तराद् व्यावृत्त इति व्यावृत्तिबुद्धेरपि विशेषेषु विशेषांतरसिद्धिप्रसगादनवस्था स्यात्तत्र विशेषान्तराभावेऽपि व्यायत्तिबुद्धेः संभवे सर्वत्र ततो विशेषसिद्धिर्न भवेदिति केचित् । तेऽपि न समीचीनबुद्धयः, समानपरिणामबद्भेदाभेदनयप्राधान्यादनवस्थानुपपत्ते: , भेदनयादानंत्यसिद्धेविशेषाणामभेदनयाच द्रव्येष्वेव विशेषान्तराणामपि संभवात, भेदाभेदनयात्तु तदेकार्थसमवायिभिर्विशेषान्तरैर्विशेषस्य विवक्षितव्यपदेशसिद्धः व्यावृत्तिबुद्धेविशिष्टतासाधनं साधीय एवान्वयबुद्धेः समान तासाधनवत्ततो विशेषसामान्यविषक्तभेदविधिव्यवच्छेदविधायि वाक्यमिति सूरिभिरभिधीयते प्रातीतिकत्वात् । ___ यथा च विशेषसामान्यविषक्तभेदविधिव्यवच्छेदात्मको विषयः प्रतीतिबलाद्वाक्यस्थ व्यवस्थापितम्तथा वाक्यमपि परमागमलक्षणं तदात्मकमेवेति प्रतिपादयन्तिसर्वान्तवत्तगुणमुख्यकल्पं
सर्वान्तशून्यं च मिथोनपेक्षम् । सर्वापदामन्तकरं निरन्तं
सर्वोदयं तीर्थमिदं तवैव ॥ ६२॥ टीका-सर्वे च तेऽन्ताश्चेति स्वपदार्थवृत्तमत्वर्थीयः प्रत्ययो युज्यतेऽन्यपदार्थवृत्तेः परत्वेऽपि सर्वशद्वादौ तदपवादाजात्यदिवत् , सर्वेऽन्ताः यस्य तत्सर्वान्तमिति परत्वाद्बहुव्रीहौ सति
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org