________________
१५६
युक्त्यनुशासनं ।
विशिष्टता समानता सामान्यविषक्तता स्यादभेदबुद्धेः समानबुद्धेस्तेन समानोऽयमनेन समानः स इत्यभेदबुद्धिः सदृशपरिणामात्मक सामान्यमंतरेणानुपपद्यमाना तदेव साधयतीति किं नश्चिन्तया । नन्वेक सामान्ययोगात्समानबुद्धिग्न्वयिनी न पुनः समानपरिणामयोगादिति चेत्, न, सामान्यवानिति प्रत्ययप्रसंगात्, सामान्यतद्वतोर्भेदात्तयोरभेदोपचारात्समानप्रत्यय इति चेत्, न, तथाऽपि सामान्यमिति प्रत्ययप्रसंग त् । यथैव हि यष्टियोगात् पुरुषो यष्टिरिति प्रतीयते तदभेदोपचारात्तथा सामान्ययोगात् द्रव्यादि: सामान्यमिति स्यान्नतु समान इति भावप्रत्ययलोपलक्षणाभावात् ।
स्यान्मतं सामान्यस्य वाचकः समानताशब्दोऽस्तीति तेन समानेन योगात्समानो द्रव्यादिरिति प्रत्ययः स्यादिति तदप्यसदेव | सामान्यशब्दवाच्यस्य वस्तुनः समानशब्दवाच्यत्वाप्रतीतेः समानानां भावः सामान्यं ज निर्न पुनः समान एव सामान्यमिति स्वार्थिकष्टथाप्रत्ययः क्रियते येन समानशब्दवाच्यं सामान्यं स्यात् । न च द्रव्यादिभ्यो भिन्नं सामान्यमन्वयप्रत्ययात्सिद्ध्यति नाम, परापरसामान्येषु साप न्यान्तरसिद्धिप्रसंगात्, तथा चानवस्था स्यात् सुदुरमपि गत्वाऽन्वयमत्ययात्सामान्यान्तरस्यासिद्धौ प्रथमतोऽपि तदन्वयप्रत्ययात् सामान्यं मा भवतु (सिद्धेत) सर्वथा विशेषाभावात । द्रव्यादिष्वन्धबुद्धिरबाधिततयाऽनुपचरिता सामान्येष्वन्वयबुद्धिरुपचरितानवस्थाप्रसंगेन बाधितत्वादिति विशेषाभ्युपगमोऽपि न युक्तः
•
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org