________________
युक्त्यनुशासनं। विधिव्यवच्छेदविधायि वाक्यम् । अभेदबुद्धरविशिष्टता स्याद् __ व्यावृत्तिबुद्धेश्च विशिष्टता ते ॥१॥
टीका-विसदृशपरिणामो विशेषः सदृशपरिणामः सामान्यं । ताभ्यां विषक्ताश्च ते च ते भेदाश्च द्रव्यपर्यायव्यक्तिरूपास्तेषां विधिव्यवच्छेदौ तद्विधायि वाक्यमिति घटना। तत्र घटमानयेति वाक्यं नाघटानयनव्यवच्छेदमात्रविधायीति घ. टानयनविधेर्गप तेनाभिधानात्, अन्यथा तद्विधानाय वाक्यान्तरप्रयोगप्रसंगात , तम्याप्यतव्यवच्छेदविधायित्वे तद्विधानायापरवाक्यप्रयोग इत्यनवस्थानुषंगात् न कदाचिद्घटानयनविधिप्रतिपत्तिः स्यादिति प्रधानभावेन व्यवच्छेदविधाय्यपि वाक्यं गुणभावेन विधिविधायि प्रतिपत्तव्यं । विधिमात्र विधाय्येव वाक्यमित्यध्ययुक्तं तदन्यव्यच्छेदेन विना विधिप्रतिपत्तेरयोगात्, तदितरव्यवच्छेदाय वाक्यान्तरप्रयोगापत्तेस्तस्यापि तद्विधिमात्रविधायित्वेऽतव्यवच्छेदाय वाक्यान्तरप्रयोगादनवस्थितिप्रसंगात, ततः प्रधानभावेन विधिप्रतिपादकं वाक्यं गुणभावेन व्यवच्छेदविधायि प्रतिपादनीयं ।
जातेरेव विधिव्यवच्छेदोभयं प्रधानगुणभावेन वाक्यमभिधत्ते, घटानयनसामान्यस्य विधानादघटानयनादिसामान्यस्य तत्सतिपक्षस्य व्यवच्छेदादिति मतान्तरमपि न युक्तिमत् । मेदविधिव्यवच्छेदविधायित्वाद्वाक्यस्य, भेदो हि व्यक्ति
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org