SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ युक्त्यनुशासनं । दिति । तदप्यतथ्य हेतोरसिद्धत्वात् । प्रारंभकरहितत्वं हि यधुत्पादककारणरहितत्वं हेतुस्तदा परमाणोयगुकविनाशादुत्पतिः कथं सिध्येत् ? द्वयणुकविनाशो न परमाणोरुत्पादकः संभवति द्वयणुकोत्पादात्पूर्वमपि सद्भावात् । कालादिवदिति चेत् न, तस्य द्वयणुकोत्पादे विनाशादविनाशे तु द्वयणुकादिकालेऽपि प्रतीतिप्रसंगात् । तथा च घटप्रतीतिकालेऽपि घटारंभकपरमाणूपलब्धिः कथं वार्येत ? . स्यान्मतं-पटप्रतीतौ तदारंभकारतंतवः प्रतीयन्त एव साक्षात्परंपरया तु तदारंभकाः परमाणदोऽस्मदाद्यप्रत्यक्षत्वान्न प्रतीयन्तेऽस्मदादिभिरनध्यक्षतस्तेषामनुमेयत्वात् । तथा हि व्यणुकावयवि द्रव्यं स्वपरिमाणादणुपरिमाणकारणारब्धं कायद्रव्यत्वात्पटादिवत् यद् व्यणुकपरिमाणकारण तो परमासासभनुमीयेते। परमाणोःकारणस्यासंभवान्न तदारंभकत्वं संभाव्यते यतस्तस्य कार्यद्रव्यत्वं स्यात्ततो नाकाशादेरनंशत्वे साध्ये परमाणुवदिति दृष्टांता साधनशून्य इति । तदेतदपि स्वदर्शनरुचिरकाशनमात्रं, परमाणोरप्यनुमानात्कार्थद्रव्यत्वसिद्धेः । तथा हि--परमाणवः स्वपरिमाणान्महापरिमाणावयविस्कंधविनाशकारणकास्तद्भावभावित्वात् कुंभविनाशपूर्वककपालवत् य. द्विनाशात्परमाणवः प्रादुर्भवति तत् द्वयणुकादि द्रव्यमित्यनुमानसिद्धं परमाणोः कार्यदव्यत्वं ततः साधनशून्यमेवोदाहरणं । न च परमाणूनां स्कन्धविभेदनभावभावित्वमसिद्धं द्वयणुकादिविनाशस्य भावे सद्भावाभ्युपगमात् । सर्वदा स्वतंत्रपरमा Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy