________________
१३८
युक्त्यनुशासनं। वेऽपि षट्सु पदार्थेषु पदार्थः पदार्थ इत्यनुवृत्तिप्रत्ययस्य सिद्धेः। स्यादाकूतं, प्रागसदादिष्वसदसदित्यनुवृतिप्रत्ययेन न व्यभिचारस्तस्य मिथ्यात्वात् न हि सम्यगनुवृत्तिप्रत्ययस्य मिथ्यात्वानुत्तिप्रत्ययेन व्यभिचारोयुक्तोऽतिप्रसंगादिति। तदप्यसम्यक् , तस्य मिथ्यात्वासिद्धः । प्रागसदादिषु मिथ्यैवासदित्यनुत्तिप्रत्ययो बाधकसद्भावादिति चेत्, किं तद्बाधकं ? प्रागभावादयो नसामान्यवंतो द्रव्यगुणकर्मभ्योऽन्यत्वात् सामान्यविशेषसमवायवदित्यनुमानं तद्बाधकं । तदविषयस्य सामान्यस्य तेन निराकरणादिति चेत्, न, अस्यानुमानस्य साध्याविनाभावनियमनिश्चयासत्त्वात्। यस्तु सामान्यवान्न स द्रव्यगुणकर्मभ्योऽन्यो यथाऽयमर्थ इति व्यतिरेकाश्रयासिद्धिः। स्यान्मतिरेषा द्रव्यादिपदार्थवेन सामान्यवत्वं व्याप्तं विनिश्चित्य भागभावादिषु इन्धगुणकर्मपदार्थत्वस्य व्यापकत्वस्याभावात् तव्याप्यस्य सामान्यत्त्वस्याभावः साध्यते ततो नाविनाभावनियमोऽसिद्ध इति, साऽपि न साध्वी द्रव्यादिपदार्थत्वेन सामान्यवत्वस्य व्याप्त्यसिद्धेस्तेषामपि सामान्यशून्यत्वात् । तथा हि-सामान्यशून्यानि द्रव्यगुणकर्माणि तत्त्वात्मकत्वात् प्रागभावादिवत् । नेह साधनशून्यो दृष्टान्तः प्रागभावादेरसद्वर्गस्य तत्त्वरूपत्वाभ्यनुज्ञानात् सदसद्वर्गस्तत्वमिति वचनात् तस्यातत्त्वरूपत्वे सर्वत्रासत्प्रत्ययस्य मिथ्यात्वापत्तेरनाद्यनंतसर्वात्मतत्वानुषंगात । तथा चोक्तम्
"कार्यद्रव्यमनादि स्यात्यागभावस्य निह्नवे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org