________________
१९
टोकासहितं। . . समाधिहेतुकं निर्वाणं कस्यचिन्न स्थाचतो मोक्षकारणं मनः समत्वं समाधिलक्षणमिच्छता नानेकांतात्मकत्वं जीवादिवस्तुनोऽभ्युपगन्तव्यमिति । तदपि न समीचीनमित्याहु:
एकान्तधर्माभिनिवेशमूला - रागादयोऽहंकृतिजा जनानाम् । एकान्तहानाच स यत्तदेव
स्वाभाविकत्वाच समं मनस्ते॥५२॥ टीका-एकान्तो नियमोऽवधारणं, धर्मो नित्यत्वादिस्वभावा, एकान्तेन निश्चितो धर्म एकान्तधर्म इति मध्यमपद. लोपी समासः। 'तृतीयान्तात् क्त उत्तरपदे' इत्युपसंख्यानात् "गुडेन संस्कृता धाना गुडधानाः" इत्यादिवत् । एकान्तधर्मेऽ. भिनिवेश एकान्तधर्माभिनिवेशः, नित्यमेव सर्वथा न कथं चिदनित्यमित्यादि मिथ्यात्वश्रद्धानं मिथ्यादर्शन मिति यावत् । एकांतधर्माभिनिवेशो मूलं कारणं येषां ते एकान्तधर्माभिनिवेशमूलाः, रागादयो रागद्वेषमायामाना अनंतानुबन्धिनोऽप्रत्याख्यानावरणाः प्रत्याख्यानावरणाः संज्वलनाश्च कषायाः, तथा हास्यादयो नव नोकषायाश्वादिग्रहणेन गृह्यन्ते । नतु च रागो लोभस्तदादयो दोषाः कथं मिथ्यादर्शनमूलाः स्युरसंयतसम्यग्दृष्टयादिषु सूक्ष्मसांपरायांतेषु मिथ्यादर्शना. भावेऽपि भावात् इति न मन्तव्यम्, तेषामनन्तसंसारकारणानां मिध्यादर्शनाभावे संभवाभावात् मिथ्यादृशां मिथ्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org