________________
१२६
युक्त्यनुशासन। चोत्पद्यते तेन तिष्ठति नश्यति च उत्पन्नं स्थितं नष्टं च उत्पस्यमानं स्थास्यन्नंदयंश्च । येन च नश्यति तेनोत्पद्यते तिष्ठति च तथा नष्टमुत्पन्नं स्थितं च नंक्ष्यत्युत्पत्स्यते स्थास्यति चेति न कचिद् व्यवस्था येनैकान्तप्रसंगः; कथंचिदव्यवस्थितस्यैव तत्त्वस्यार्थक्रियाकारित्वप्रसिद्धः । पटमुदाहरणीकृत्य सर्वमेतद्वक्तव्यं, तथा हि-पटःप्रारंभक्षणापेक्षयोत्पद्यते तिष्ठति विनश्यति चानारंभसमयापेक्षया द्वितीयक्षणापेक्षया तूत्पत्स्यते स्थास्यति नक्ष्यति च निशस्वरूपापेक्षयोत्पन्नः स्थितो नष्टश्च पूर्वाविनित्तरूपेणेति प्रातीतिकमेतत् ।
ननु चैकमेव वस्तु नानास्वभावमेवमायातं तच विरुद्धं कुतोऽवतिष्ठत इत्याहुः
नानात्मताभप्रजहत्तदेक
मेकात्मतामप्रजहच्च नाना। अंगांगिभावात्तव वस्तु तद्यत्
क्रमेण वाग्वाच्यमनंतरूपम् ॥ ५० ॥ टीका-यदेकं वस्तु सत्वैकत्वप्रत्यभिज्ञानात् सिद्धं तन्नानात्मतामपरित्यजदेव वस्तुत्वं लभते, समीचीननानाप्रत्ययविषयत्वात् यत्त नानात्मतां जहाति न तद्वस्तु यथा परपरिकल्पितात्माघद्वैतं, वस्तु च विवादापन्नं जीवादि तस्मानानात्मतामप्रजहदेव प्रतिपत्तव्यं । तथा यदबाधितनानाप्रत्ययबलान्नाना प्रसिद्धं तदेकात्मतामजहदेव तव वस्तु सम्मतं तस्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org