________________
११८
युक्त्यनुशासनं। पूर्वापरेदानींतनतासंवदेनयोविच्छेदमुपलब्धुं समर्थः। सन्तान स्ताहक समर्थ इति चेत्, न, तस्यावस्तुत्वे सकलसामर्थ्या नुपपत्तेः, वस्तुत्वे पुनरात्मन एव संतान इति नामकरणानित्यात्मसिद्धेः । स्यान्मतिरेषा ते, पूर्वापूर्वेदानींतनतासंवेद नाहितवासनाप्रबोधात् तद्विच्छेदनिश्चयोत्पत्तेन नित्यात्मसंसिद्धिरिति, साऽपि न सम्यक् । पूर्वापरेदानींतनतानिश्चयस्यैव तत्संवेदनाहितवासनाप्रबोधादुत्पचेर्यथानुभवनिश्चयोपजननसंभवात् न पूर्वापूर्व विच्छेदोऽनुभूतः । ननु प्रत्यक्षतः स्वरूपानुभव एव संवेदनस्य पूर्वापरसंवेदनविच्छेदानुभव इति चेन्न तदविच्छेदानुभवस्यापि स्वरूपानुभवरूपत्वसिद्धेरपतिबंधात् । पूर्वस्मात् परस्माच्च संवेदनादिदं संवेदनं विच्छिन्नमिति निश्चयोत्पत्तेः संवेदनस्वरूपानुभवस्तद्विच्छेदानुभव एवेति चेत् , नाविच्छिन्नमहमामुहूर्तादेरन्वभवमित्यविच्छेदनिश्चयप्रादुर्भावातदविच्छेदानुभवस्यैव सिद्धेस्ततो निरंतरमिदानींतनतया वहिरन्तश्च वस्तुनः प्रतीयमानत्वं कथंचिन्नित्यत्वमेव साधयतीति नातः क्षणस्थितिपर्यायमात्रसिद्धिः नाप्यनुमानाल्लिंगाभावात् । यत् सत्तत्सर्व क्षणस्थितीति पर्यायमानं नित्यद्रव्यमाने क्रमयोगपद्याभ्यामर्थक्रियाविरोधात्सर्वानुपपत्तेरित्यनुमानं पर्यायमात्रवस्तुसाधनमिति चेत् , न, विरुद्धसाधनादस्य विरुद्धत्वात् । तथा हि-यत् सत्तत्सर्व द्रव्यपर्यायरूपं जात्यंतरं पर्यायमात्रे सर्वथाऽर्थक्रियाविरोधात् द्रव्यमात्रवत् सस्थायोगादिति निरूपितप्रायं । ततः सूक्तं न पर्यायैकांत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org