________________
युक्त्यनुशासनं। घयत्वनियमात, तस्य प्रतिषेधविषयत्वे प्रत्यक्षस्यापि प्रतिषेधविपयत्वसिद्धेःकुतः सन्मात्रत्वसिद्धिः। आगमात्स्वपरविभागाभावः साध्यत इति चेत्, न, स्वपरविभागाभावे कचिदागमानुपपत्तेः । आगमो ह्याप्तवचनमपौरुषेयं वा वचनं स्यात् ? न तावदाप्तस्य तत्प्रतिपाद्यस्य च विनेयस्याभावे वचनमाप्तस्य प्र. वर्तते । तत्सद्भावे च सिद्धः स्वपरविभाग इति कथमागमात्तदभावः सिध्येत् ? यदि पुनरपौरुषेयं वचनमागमस्तदाऽपि स्वपरविभागः सिद्धस्तव्याख्यातुः श्रोतुश्च सिद्धेः स्वपरविभागोपपत्तेः । स्याल्मत,स्वपरविभागाभावोऽपि न कुतश्चित्प्रमाणात्साध्यते प्रत्यक्षतः सन्मात्रसिद्धरेव स्वपरविभागाभावस्य साधनात्केवलमविद्याक्लिासमा प्रतिपाद्यप्रतिपादकभावः संवेद्यसंवेदाभाववदिति । तदप्यसम्मक, संवेद्यसंवेदकभावप्रतिपाद्यप्रतिपादकभागभावे स्वपरप्रतिपत्तिविरोधात् सर्वथा शून्यवादावकाशप्रसंगात् ।
तदुक्तम्सर्वथा सदुपायानां वादमार्गः प्रवर्तते । अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः ॥ इति ।। तदेतदत्रापि संप्राप्तं । तथाहि-- सर्वथा सदुपायानां वादमार्गः प्रवर्तते ।
अधिकारोऽनुपायत्वान्न वादे सत्त्ववादिनः ॥ ननु च विचारात्पूर्व तत्त्वाभ्युपगमः पश्चाद्वा ? यदि पूर्व तदा निष्फलो विचारः स्यात् , तत्त्वाभ्युपगमफलत्वाद्विवारस्य,
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
ww