________________
युक्त्यनुशासनं ।
टोsस्तु "स्फोटति प्रकटीभवत्यर्थोऽस्मिन्निति स्फोट" चिदात्मा, पदार्थज्ञानावरणवीर्यान्तरायक्षयोपशमविशिष्टः पदस्फोटो, वाक्यार्थज्ञानावरण वीर्यान्तरायक्षयोपशम विशिष्टो वाक्यस्फोट इति प्रकरणाह्निकाध्यायशास्त्रमहाशास्त्रादिरंगम विष्टांगवाहा विकल्पः स्फोट: प्रसिद्धो भवति, भावश्रुतज्ञानपरिणतस्यात्मनस्तथाभिधानाविरोधात् । न हि निरतिशय नित्यैकान्तस्वभावोऽयमात्मा नानार्थग्रहण परिणामविरोधान्निरन्वयविनश्वरक्षणिक चित्तवत् *मयौगपद्यविशेधात् । नापि सातिशयनित्यैकान्तस्वभावोत्यन्तार्थान्तरभूतैरतिशयैः संबंधानुपपत्तेः । ज्ञानादिपरिणापानामास्मनि समवाय संबंध इति चेत् न, तस्य कथंचित्तादात्म्यव्यतिरेकेण पदार्थान्तरस्यासंभवात् । परिणामिनस्तु प्रमाणबलादेव स्थितस्यात्मनो नानार्थग्रहण परिणामोपपत्तेरन्तः स्वरूपं पदं चिदात्मकमिति व्यवतिष्ठते । तस्मिन् सति वक्तुः क्रमविशेषविशिष्टवर्णसमूहलक्षणं वाह्यं पदं श्रोत्रज्ञानविषयभावमापद्यमानमनुमन्यामहे तस्यैव श्रोत्रिजनपदार्थज्ञानजनन निबंधनत्व निर्णयात् । ततस्तदेव विशेषं समानभावं नयते विशेषांतरपक्षपातित्वात् सामान्यं च विशेषं नयते विशेषान्तरवृत्तेः स्वयं सामान्य निष्ठचिविधविशेषविषयीकरणसमर्थत्वात् ।
३८
एतेनांतरंग वाक्यं प्रकरणमा न्हिकमध्यायः शास्त्रादि भावश्रुतविशेषं विविधं समानभावं नयते, सामान्यं वा नैकप्रकारं विशेष नयत इति प्रतिपत्तव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org