SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्ध सेनदिवाकर कृत: २४५ किञ्च इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ इत्यादियावत् सम्यक् जपतां ० भव्यजीवानां भवनपति - व्यन्तर- ज्योतिष्क- वैमानिकवासिनो देवाः सदा प्रसीदन्ति । इतीमं० भव्यजीवानां पृथिव्यप्तेजोवायुगगनानि भवन्त्यनुकूलानि । इतीमं० भव्यजीवानां सर्वसम्पदां मूलं जायते जिनानुरागादिति । इतीमं० भव्यजीवानां साधवः सौमनस्येनानुग्रहपरा जायन्ते । इतीमं० भव्यजीवानां खलाः क्षीयन्ते । इतीमं० भव्यजीवानां जल-स्थल - गगनचराः क्रूरजन्तवोऽपि मैत्रीमया भवन्ति । इतीमं० भव्यजीवानां अधमवस्तून्यपि उत्तमवस्तुभावं प्रपद्यन्ते । इतीमं० भव्यजीवानां धर्मार्थकामगुणाभिरामा जायन्ते । इतीमं० भव्यजीवानां ऐहिक्यः सर्वा अपि शुद्धगोत्र - कलत्र - पुत्र - मित्र - धन-धान्य - जीवित-यौवन-रूपा-ऽऽरोग्य - यशःपुरःसराः सर्वजनानां सम्पदः परभागजीवितशालिन्यः स्योकादर्शाश्च (?) सम्मुखीभवन्ति । इतीमं भव्यजीवानां आमुष्मिक्यः स्वर्गापवर्गनियोऽपि क्रमेण यथेष्टं स्वयं स्वयंचरणोत्सवं समुत्सुका भवन्तीति । सिद्धिः श्रेयः समुदयश्च । यथेन्द्रेण प्रसन्नेन, समादिष्टोऽर्हतां स्तवः । तथाऽयं सिद्धसेनेन, प्रपेदे सम्पदां पदम् ॥ इति श्रीसिद्धसेनादिवाकरसूरिकृतं श्रीजिन सहस्रनामगद्यस्तोत्रं सम्पूर्णमिति । 'संवत् १७९८ वर्षे द्वितीय श्रावणशुदि ११ वार भौमे लिखितं प० अविचलविजयगणिना 'जालोर' नगरे ॥ १ क- प्रतेरुल्लेखोऽयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy