SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिप्रणीतम् २२९ भरन्ति - पूरयन्ति घटादिभिस्तत्र निक्षिपन्ति इत्यर्थः, तेषां ज्वलनो भयं न करोतीत्युक्तिः । कं किंविधम् ? 'अयुगलम्' 'युजिंच समाधौ ' ( सिद्ध० धा० ) योजनं युक्समाधिः, न युग अयुग - असमाधिस्तं अलति - वारयतीति ॥ ६-७ ॥ Fire of the forest in which all the groves of trees have gathered together on account of [ or have come in contact with] a series of flames of conflagration raised by rough wind and which is terrible on account of horrible cries of silly female deer that are being burnt [or of beasts perplexed (even though situated) in a place free from the attack of fire ] causes no fear to those mortals who remember the universal preceptor's pair of feet which have alleviated (miseries of) the extent of all the three worlds as is the case with those who rightly fill (pots) with water which removes agony. 6-7 竑 法 法 竑 विलसंतभोग भी सण- फुरिआरुणनयणतरलजीहालं । उग्गभुअंगं नवजलय - सच्छहं भीसणायारं ॥ मन्नंति कीडसरिसं दूरपरिच्छुडूविसमविसवेगा । तुह नामक्खर फुडसिद्धमंतगरुआ नरा लोए ॥ ८-९ ॥ युग्मम् ['विलसद्भोगा भीषणस्फुरितारुणनयनतरलजिह्वालम् । उग्रभुजङ्गं नवजलदसदृशं भीषणाकारम् ॥ मन्यन्ते कीटसदृशं दूरपरिक्षिप्तविषमविषवेगाः । तव नामाक्षरस्फुटसिद्धमन्त्रगुरुका नरा लोके ॥ ] विलसन् - उल्लसन् आभोगः - शरीरम्, विलसन्तो वा भोगाः - फणा यस्य, न विद्यते भीर्यत्र तद् अभि-निर्भयं यद् ईषणं-दर्शनं अभीषणं तस्मै स्फुरिते - परिस्पन्दवती अरुणे( रक्ते) नयने - लोचनयुग्मं यस्य, तरले जिह्वे यस्य स्त इति 'प्राण्यङ्गादातो लः' (सिद्ध० ७२-२०) इति मत्वर्थीयो लः । अथवा तरलजिह्वाभ्यां सकाशात् आलं -अनर्थं लोकानां यस्मात् सः, ततो विशेषणकर्मधारयस्तम् । उग्रभुजङ्ग, नवजलदो - वार्षिक मेघः तेन 'सच्छहं' ति देश्यत्वात् सदृशं तद्वत् श्याममित्यर्थः । भीषणाकारं - भयङ्कराकृतिं यद्वा भीषणः आसमन्तात् इतस्ततश्चारो - वेल्लन्त आचारो - व्यवहारो यस्य ॥ तादृशमपि सर्प मन्यन्ते कीदृशं ? ( गोमय कीटादितुल्यं, कुत्र ? जगति - ) लोके । के ? - नराः । किंविधाः ? - तव श्री पार्श्वनाथेति यानि नामाक्षराणि तान्येव स्फुटः - प्रकटप्रभावो यः सिद्धो मन्त्रो गारु १ 'विलसदाभोगभीषण ० ' इत्यपि घटते । २ 'भीषणाचारं ' इत्यपि अर्थः । ३' गरिष्ठा' वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy