SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १०४ भक्तामरस्तोत्रम् समासा यथा-तुरङ्गाश्च गजाश्व तुरङ्गगज, सेनाङ्गत्वादेकवद्भावः, वल्गच तत् तुरङ्गगजं च वल्गत्तुरङ्गगजं, तस्य गर्जितानि वल्गत्तुरङ्गगजगर्जितानि, तैः भीमो नादो यत्र तत् । बलं येषां ते बलवन्तस्तेषाम् । भुवः पतयो भूपतयस्तेषाम् । उद्यश्चासौ दिवाकरश्व उद्यदिवाकरः, तस्य मयूखा उद्यद्दिवाकरमयूखाः, तेषां शिखास्ताभिः अपविद्धं उद्यदिवाकरमयूखशिखापविद्धम् । तव कीर्तनं त्वत्कीर्तनं तस्मात् ॥ इति काव्यार्थः ॥ ३८॥ Thy hymn ensures victory even in terrible wars. The army of even mighty monarchs, wherein the horses are running at full gallop and wherein the elephants are making a tremendous noise by roaring, is immediately destroyed on the battlefield by praising Thee like the darkness when pierced by the sharp ends of rays of the rising sun. ( 38 ) किञ्च कुन्ताग्रभिन्नगजशोणितवारिवाह वेगावतारतरणातुरयोधभीमे। युद्धे जयं विजितदुर्जयजेयपक्षा स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ३९॥ गु० वि०-हे जिनेश्वर! त्वत्पादपङ्कजवनायिणः-त्वत्पदपद्मपण्डभाजो जना युद्धेरणे जय-विजयं लभन्ते-प्राप्नुवन्ति । किंभूते युद्धे ? कुन्ताः -भल्लागैर्भिन्नानां-पाटितानां गजानां शोणितं-रक्तमेव वारिवाहो-जलप्रवाहः तस्मिन् वेगावतारात्-शीघ्रप्रवेशात् तरणे-प्लवने आतुरैः-व्याकुलैर्योधैः-भटैः भीम-भयानकं तस्मिन् । किंभूता जनाः? विजितः-पराभूतो दुर्जयः-अजेयो जेयपक्षो-जेतव्यगणो यैस्ते । इति वृत्तार्थः ॥ ३९ ॥ अत्र प्रभावे कथा रणकेतोबलं भग्नं, राजसूगुणवर्मणा । एकाकिना महास्तोत्र-प्रभावादेव कानने ॥१॥-अनु० 'मथुरायां' पुरि रणविजयलब्धकेतुः श्रीरणकेतुर्नुपः । तस्य लघुबन्धुर्गुणवर्मा । स जिनधर्मरक्तो दुष्टपाखण्डिविरक्तो भक्तामरस्तवजापासक्तो दाता भोक्ता महोत्कटः करटिबलनिराकरिष्णुः प्रथितः॥ अथ रणकेतुराजा पट्टदेव्याऽभाणि-देव! अयं गुणवर्मा तादृग् दृश्यते श्रूयते च बन्दिवृन्दनन्दितामन्दकीर्तिः सर्वजनप्रियः पुरान्तर्विलसति । यथा स्तोकैरेव दिनैः राज्यं वशीकृत्य हरिष्यति । राज्यहारी बन्धुरपि रिपुः । उक्तं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy