SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिविरचितम् समासा यथा-रक्ते ईक्षणे यस्य स तम् । मदेन सह वर्तते यः स समदः, स चासौ कोकिलश्व समदकोकिलः, तस्य कण्ठस्तद्वन्नीलः समदकोकिलकण्ठनीलः तम् । क्रोधेन उद्धतः क्रोधोद्धतः तम् । फणा अस्यास्तीति फणी तम् । उत्-ऊर्ध्वं फणा यस्य स उत्फणः तम् । क्रमयोर्युगं क्रमयुगं तेन । निरस्ता शङ्का यस्य स निरस्तशङ्कः । तव नाम त्वन्नाम, नागा दम्यन्ते यया सा नागदमनी, त्वन्नामैव नागदमनी त्वन्नामनागदमनी ॥ इति काव्यार्थः ॥ ३७ ॥ Thy name is an efficacious snake charm. That man in whose heart rests the snake-charm (Näga-damani) of Thy name fearlessly treads upon a red-eyed cobra, which is as black as the throat of an intoxicated cuckoo wild with rage and which is rushing forth with its hood raised up. (37) अथ रणातकं हरन्नाह वलगत्तुरङ्गगजगर्जितभीमनाद___ माजौ बलं बलवतामपि भूपतीनाम् । उद्यदिवाकरमयूखशिखापविद्धं त्वत्कीर्तनात् तम इवाशु भिदामुपैति ॥ ३८ ॥ गु० वि०-हे देवाधिदेव! त्वत्कीर्तनात्-त्वन्नामग्रहणादाजौ-सङ्ग्रामे बलवतामपिशक्तानामपि भूपतीनां-राज्ञां बलं-सैन्यं शौर्य वा भिदामुपैति-स्फुटनमायाति । किंभूतम् ? वल्गतां-धावतां तुरङ्गाणां-गजानां च गर्जितानि भीमनादा-घोरवीरसिंहनादाश्च यत्र तत्। अथ(वा) क्रियाविशेषणमेतत् सङ्ग्रामस्य (१)। किमिव ? तम इव । यथा उद्यदिवाकरमयूखशिखापविद्धं-उद्गच्छत्सूरकरततिप्रेरितं-सूर्यकरक्षिप्तं तमः-अन्धकारं भेदं यातिप्रलयं प्रयाति तद्वदित्यर्थः । इति वृत्तार्थः ॥ ३८॥ . मे० वृ०-अथात्यन्तघोरत्वेन युद्धभयनाशं काव्यद्वयेनाह-(वल्गेत्यादि, कुन्ताग्रेत्यादि)। हे जिनेन्द्र ! आजौ-सङ्ग्रामे त्वत्कीर्तनात् भूपतीनां बलं आशु-शीघ्रं भिदां उपैतीत्यन्वयः । 'उपैति' प्राप्नोति इति क्रियापदम् । किं कर्तृ ? 'बलं' 'सैन्यम् । कां कर्मतापन्नाम् ? 'भिदा' विनाशम् । ( कथम् ? ) 'आशु' शीघ्रम् । बलं केषाम् ? 'भूपतीनां राज्ञाम् । कस्मात् ? 'स्वत्कीर्तनात्' तय स्तवनात् । कस्मिन् ? 'आजौ' सङ्ग्रामे । कथंभूतानां भूपतीनाम् ? 'बलवता' ओजस्विनाम् । कीदृशं बलम् ? ('वल्गत्तुरङ्गगजगर्जितभीमनाद') वल्गन्तो-मिलन्तो ये तुरङ्गा-अश्वा गजा-हस्तिनस्तेषां गर्जितानि तैीमो-रौद्रो नादः-शब्दो यत्र तत् । इवोपमीयते । किमिव ? तम इव । यथा तमःअन्धकारं भिदां उपैति । किंविशिष्टं तमः ? 'उद्यदिवाकरमयूखशिखापविद्धं' उद्यन्-उदयं प्राप्नुवन् यः दिवाकरः-सूर्यस्तस्य मयूखा:-किरणाः तेषां शिखा-अग्राणि ताभिरपविद्धं-पराहतम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy