SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिविरचितम् मे० ० वृ० -- अथ सिंहभयमाह – (भिनेत्यादि ) । हे जहरिणाधिपोऽपि ते तव क्रमयुगाचलसंश्रितं पुरुषं न आक्रामति - न पराभवतीत्यन्वयः । `-..क्रामति’इति क्रियापदम् । कः कर्ता ? 'हरिणाधिप:' सिंहोऽपीति, उपलक्षणाद् व्याघ्रादिहिंस्रजीवः । कं कर्मतापन्नम् ? ते - तव ' क्रमयुगाचलसंश्रितं' चरणद्वयरूपपर्वतमाश्रितं, पुरुषमिति शेषः । किंभूतम् ? ' क्रमगतं' सिंहस्य चरणाम्रे प्राप्तम् । कथंभूतः हरिणाधिपः ? ' बद्धक्रमः ' शृङ्खलितपादः । पुनः किंविशिष्टो हरिणाधिपः ? 'मिन्नेभकुम्भगलदुज्वलशोणिताक्तः ', (अस्य) अर्थ: समासादेव, ( स चैवं) भिन्नो - विदारितः स चासौ इभो - हस्ती भिन्नभः, तस्य कुम्भौ भिन्नेभकुम्भौ, फलानीव फलानि, मुक्ताश्च तानि फलानि च मुक्ताफलानि, शोणितेन - रुधिरेण अक्तानि - खरण्टितानि - शोणिताक्तानि, तानि च तानि मुक्ताफलानि च शोणिताक्तमुक्ताफलानि, उज्ज्वलानि - शुक्लानि च तानि शोणिताक्तमुक्ताफलानि च उज्वलशोणिताक्तमुक्ताफलानि भिन्नेभकुम्भेभ्यो गलन्ति च तानि उज्वलशोणिताक्तमुक्ताफलानि च मिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलानि तेषां प्रकर:- समूहस्तेन भूषित:शोभावान् कृतः भूमेर्भागो येन सः । बद्धाः क्रमा यस्य स बद्धक्रमः । ( क्रमे गतः ) क्रमगतस्तम् । हरिणानां अधिपः हरिणाधिपः । क्रमयोर्युगं क्रमयुगं, अचल इव अचलः, क्रमयुगं स चासौ अचलश्च क्रमयुगाचलः, तं संश्रितः क्रमयुगाचलसंश्रितः तं तथा ॥ इति काव्यार्थः ॥ ३५ ॥ अथ दावानलभयं निरस्यति - Thy devotee is not attacked by a ferocious lion. The lion who is about to pounce upon and who has adorned the ground by scattering on it a collection of pearls besmeared with the bright blood issuing forth from the temples of the elephants torn by him, does not attack him, who has resorted to the mountain (in the form) of the pair of Thy feet, even though he is within his clutches. ( 35 ) ९७ X 竑 竑 कल्पान्तकालपवनोद्धतबह्निकल्पं दावानलं ज्वलितमुज्वलमुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव सम्मुखमापतन्तं त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ३६ ॥ गु० वि० - हे कर्मक्षयकृशानो ! त्वन्नाम कीर्तनजलं - त्वदभिधानस्तवनघननीरम् अशेषं - वज्राग्निविद्युत्प्रदीपनादिभेदात् सकलं दावानलं - वनवहिं शमयति- विनाशयति । किंभूतं दावानलम् ? कल्पान्तकालपवनेन - युगान्तसमयवातेन उद्धतः - उत्कटो यो वह्निः - अग्निस्तेन कल्पं - समं कल्पान्तवातेन उद्धतः - प्रेरितो - विस्तारितो यो वह्निस्तत्कल्पं वा, ज्वलितं - दीप्तं, उज्ज्वलं -ज्वालारक्तं, उत्स्फुलिङ्गं - उल्ललद्वह्निकणं, विश्वं जिघत्सुमिव - जगज्जि - भ० १३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy