SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिविरचितम् चार्म पात्रं मरिष्यसेऽन्यथा। मयि जीवति को गृहीता मदाज्यकुतुपमित्युक्त्वा वाणत्रयेण तस्करत्रयं जघान । पश्चादागतैः पान्थैस्तस्य विक्रमाद्भुतं दृष्ट्वा विसिमिये। चौरवधाद् रञ्जितैर्जयजयारवश्चक्रे । सा वार्ता धवलककात् श्रीपत्तनं प्राप्ता। चौलुक्य भीमदेवराज्ञा श्रुता । आहूतो जिणहाकः । दृष्टः कपाटपुटविकटवक्षस्थलो जानुप्रातभुजार्गलोऽयम् । वसनहीनोऽपि तेजस्वी । खल्वाटोऽपि सच्छायः । एकोऽपि श्रीमान् । उवाच राजा-भो ! गृहाण गूजेरदेशमध्ये क्रूरतस्कररक्षणक्षम निष्कोशं सम मण्डलायम् । तावदुचितभाषी शत्रुशल्यो नाम सेनानीरवादीत "खंडेउ तासु समप्पियइ जसु खंडइ अभ्यासु। जिणहा इकु समप्पिया तुलचेल कप्पासु ॥ १॥" जिणहाख्योऽपि तमुद्दिश्योचे "असिधर धणुधर कुंतधर, सत्तिधरा य बहूअ । सतुसल ! जे रणि सूर नर, जणणि ति विरल पसूय ॥ १॥" राज्ञोक्तम्-साधूक्तम् । शत्रुशल्यो नरेन्द्रमनो मत्वाऽवादीत् "अश्वः शस्त्रं शास्त्रं, वीणा वाणी नरश्च नारी च । पुरुषविशेष प्राप्ता, भवन्ति योग्या अयोग्याश्च ॥ १॥"-आर्या त्वयाऽऽहतोऽयं सर्ववीरकोटीरो भविष्यति । उक्तं च "प्रसन्नेऽधिपती ग्राह्या, मन्देनापि पदस्थितिः। ग्रामोऽपि शिष्ययत्येव, यद्बलाधिपतामिह ॥ १॥" इति श्रीभीमस्तस्मै पट्टदुकूलं वेवं स्वर्णकरमुद्रिकं खझं धवल काकाधिपत्यं सैन्यं चादात् । स राजानं नत्वा निजपुरं प्राविशत् । क्रमात् सकलमलिम्लुचान न्यग्रहीत् । तस्करनाम शास्त्रे स्थितं, न गूर्जरावासु । एकदा कश्चिच्चारणस्तत्परीक्षांचिकीः करभमचूचुरत् । जिणहारक्षकैः सोष्ट्रो धृतः । दण्डेशे पूजां कुर्वति तत्क्षणं ढाकितो वद्धश्चौरः । देव! असौ दस्युः, किं क्रियते ? । अस्य सोऽङ्गुलिसंज्ञया वधमादिशत् । ततः पाटच्चरो वच उच्चैरुच्चचार १ खगम् । २ छाया खजस्तस्मै समयते यत्य खङ्गेऽभ्यासः । जिण है एकः समर्यते चेलतोल्यः कासः ॥ ३ छाया असिधरो धनुर्धरः कुन्तधरः शक्तिधराश्च बहवः । शत्रुशल्य ! यो रणे शूरो नरो जननी तं विरलं प्रसुपुवे ॥ भ० १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy