SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिविरचितम् tos IIc conclusively bows to God. Oh Lord ! obeisance to Thee, the destroyer of the miseries of the three worlds. Obeisance to Thee, the pure jewel on the surface of the earth (or the unsullied ornament of the mortal, nether and celestial worlds ). Obeisance to Thee, the Supreme Lord of the three worlds. Oh Jina! adoration to Thee that hast dried up the ocean of mundane existence. (26) पुनर्युक्त्या गुणान् स्तौति को विस्मयोऽत्र यदि नाम गुणैरशेषै__स्त्वं संश्रितो निरवकाशतया मुनीश!। दोषैरुपात्तविविधाश्रयजातगर्वैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥ २७ ॥ गु० वि०-हे मुनीश ! यदीत्यङ्गीकारे । नामेत्यामन्त्रणे । हे सकर्णा ! अस्माभिरङ्गीकृतोऽयमर्थः, निरवकाशतया-पञ्चास्तिकायरुद्धलोकमध्यवन्नरन्तर्येण सर्वाङ्गव्यापकतया पुरुषान्तरेऽनवस्थानतया अशेषैः-सर्वैर्गुणैः त्वं संश्रितः-आशिश्रियिषे। अत्रार्थे को विस्मयः? -किं कुतुकम् ? । अन्यच्च दोषैः-दूषणैः स्वप्नान्तरेऽपि-स्वप्नावस्थायामपि कदाचिदपिकस्मिंश्चिदपि क्षणे नेक्षितोऽसि-न दृष्टोऽसि-न विलोकितोऽसि । अत्रापि को विस्मयः?किमाश्चर्यम् ? यतो गरुडदर्शनाद् भुजगा इव सूर्येक्षणात् तमश्चया इव तीर्थकराद् दूरतो नेशुर्दोषाः । किंभूतैः दोषैः ? उपात्तैः-गृहीतैः-प्राप्तैर्विविधैः-नानारूपैराश्रयैर्जात-उत्पन्नो गर्वः-वयं सर्वजनाश्रयाः गुणा जिनाश्रया एवेतिरूपो दर्पो येषां तैः । अथच(वा) उपात्तः-स्वीकृतो विविधानाम्-अनेकेषां विबुधानां-देवानां वा आश्रयः-आश्रयणं तस्माजातो-भूतो गर्वः-अहङ्कारो येषां तैः । भगवदङ्गे गुणानां निरन्तराश्रयाद् दोषाणामभावात् करित्युक्तिः । पूर्व 'सम्पूर्णमण्डल'वृत्ते गुणानां त्रिभुवनव्यापकत्वं कीर्तिद्वारेणोक्तम् । साम्प्रतं त्वदाश्रया एव गुणाः (इति) न पौनरुक्त्यम् । इति वृत्तार्थः ॥ २७ ॥ मन्त्रोऽयम् ॐ नमो ऋषभाय मृत्युंजयाय सर्वजीवशरणाय परमब्रह्मणेऽष्टमहाप्रातिहार्यसहिताय नागभूतयक्षवशंकराय सर्वशान्तिकराय मम शिवं कुरु कुरु स्वाहा । धार २१ स्मरणात् क्षुद्रोपद्रवनाशो वाञ्छितलाभश्च ॥ प्रभावे कथा यथा रुद्रोऽप्यदृश्यतां यातः, स्वप्नेऽपि ददृशे नहि । शातवाहनभूपस्य, पुत्रोऽभूजिनसेवया ॥१॥-अनु० १०त्तविबुधाश्रयः' इत्यपि पाठः । भ. १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy