SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ भक्तामरस्तोत्रम् "संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । स्वातौ सागरशुक्तिसम्पुटगतं तज्जायते मोक्तिकं प्रायेणाधममध्यमोत्तमगुणः संवासतो जायते ॥ १॥"-शार्दूल. समासा यथा-मननं पूर्व मत्वा 'मन ज्ञाने' धातुः क्त्वा प्रत्ययः 'लोपस्त्वनुदात्ततनाम्' (सा० सू० ८८६) इति नलोपः, 'हस्वस्य पिति कृति तुम्' (सा० सू० १२४६) । संस्तूयते अनेनेति संस्तवनम्। तनुर्धीर्यस्य स तनुधीस्तेन तनुधिया। नलिन्या दलानि नलिनीदलानि तेषु । आधारे सप्तमी । बहुवचनं तु अत्यन्तशोभासम्भारव्याकम् । मुक्ता एव फलं मुक्ताफलं, तस्य धुतिः मुक्ताफलद्युतिस्ताम् । उदकस्य बिन्दुः उदबिन्दुः, 'सहादेः सादिः' ( सा० सू० ५०६) इति तेन उद इत्यादेशः । “विन्दौ पृषत्पृषतविग्रुषः” (अभि० का० ४, श्लो० १५५) इति हेमसूरयः ॥ इति अष्टमकाव्यार्थः॥ ८॥ He gains confidence in composing the hymn. Having thus thought over, oh Lord, I, though poor in intelligence commence ( composing) this hymn of Thine. Owing to Thy prowess, this ( humble) work of mine will surely attract the attention of the good; ( for, even ) a drop of water. shines like a pearl, when resting on a leaf of a lotus-plant. ( 8 ) अथ सर्वज्ञनामग्रहणमेव विघ्नहरमाह आस्तां तव स्तवनमस्तसमस्तदोषं त्वत्संकथाऽपि जगतां दुरितानि हन्ति । दूरे सहस्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाजि ॥९॥ गु० वि० हे अष्टादशदोषनिर्नाशन ! अस्तसमस्तदोष-निर्मूलितनिखिलदूषणं तव स्तवनं-गुणरहस्योत्कीर्तनं आस्तां-तिष्ठतु दूरे । स्तवमहिमा महीयान् वर्तते । त्वत्संकथाsपि-त्वत्सम्बन्धी संलापोऽपि-त्वद्विषयिणी पूर्वभवसम्बद्धनामवार्ताऽपि जगतां-लोकानां दुरितानि-पापानि विघ्नानि वा हन्ति । उक्तं च (वन्दितासूत्रे, गा० ४६) "चिरसंचियपावपणा-सणीइ भवसयसहस्समहणीए।। चउवीसजिणविणिग्गय-कहाइ वोलिंतु मे दिअहा ॥१॥"-आर्या १ छाया चिरसञ्चितपापप्रणाशिन्या भवशतसहस्रमथिन्या । चतुविशतिजिनविनिर्गत-कथया व्यतिव्रजन्तु मम दिवसाः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy