SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः। [प्रथमः १८अथ कन्यकुब्जादायातपञ्चकुलेन तद्देशराज्ञः सुतायाः श्रीमहाणकाभिधानायोः कञ्चुकसम्बन्धे पितृप्रदत्तगूर्जरदेशस्योद्ग्राहणकहेतवे समागतेन सेल्ल द्वनराजाभिधानश्चक्रे । षण्मासी यावद्देशमुग्राह्य चतुर्विशतिसंख्यान् रूप्यकम्मलक्षांस्तेजोजात्यांश्चतुःसहस्रसंख्यांस्तुरङ्गमान्गृहीत्वा पुनः स्वदेशं प्रति प्रस्थितं पञ्चकुलं सौराष्ट्राभिधानघाटे वनराजो निहत्य कस्मिन्नपि वननिकुञ्ज तद्राजभयाद्वर्ष यावद्गुप्तवृत्त्या तस्थौ ॥ १९ अथ निजराज्याभिषेकाय नगरनिवेशचिकीः शूरां भूमिमवलोकमानः पीपलुलातडागपाल्यां सुखनिषण्णेन भाख्याडसाखडसुतेनाणहिल्लनाम्ना पृष्टः। किमु विलोक्यते। नगरनिवेशयोग्या शूरा भूमिरवलोक्यते इति तैः प्रधानैरभिहिते यदि तस्य नगरनिवेशस्य मम नाम ददत ततस्तां भुवमावेदयामीत्यभिधाय जालिवृक्षसमीपे गत्वा यावती भूः शंशकेन श्वात्रासितस्तावती भुवं दर्शयामास । तत्राणहिल्लपुरनाम्ना नगरं निवेश्य संवत् ८०२ वर्षे वैशाखसुदि २ सोमे श्रीविक्रमार्कतस्तस्य जालितरोमूले धवलगृहं कारयित्वा राज्याभिषेकलग्ने काकरग्रामवास्तव्यां तां प्रतिपन्नभागनीं श्रीदेवीमाहूय तया कृततिलकः श्रीवनराजो राज्याभिषेक पञ्चाशद्वर्षदेश्यःकारयामास । स जम्बाभिधानो वणिग् महामात्यश्चक्रे । पञ्चासरग्रामतः श्रीशीलगुणसूरीन् सभक्तिकमानीय धवलगृहे निजसिंहासने निवेश्य कृतज्ञचूडामणितया सप्ताङ्गमपि राज्यं तेभ्यः समर्पयंस्तैनिःस्पृहैर्भूयो निषिद्धः। प्रत्युपकारबुद्ध्या तदादेशाच्छ्रीपार्श्वनाथप्रतिमालंकृतं पञ्चासराभिधानं चैत्यं निजाराधकमूर्तिसमेतं च कारयामास । तथा तेन धवलगृहकण्ठे कण्ठेश्वरीप्रासादश्च कारितः ॥ १ तादृशराज्ञः P २ महणकाभिधानायाः a b ३ स्योद्ग्राहणकसंबंधहेतवे B ४ सेलभृत् A B ५ पारूषकद्रम्म B H ६ पञ्चकुलशब्दो हर्षचरिते प्राचीनोत्कीर्णलेखेषु च दृश्यते ७ राजधानीनगर B H ८ शशकेनोच्छासिता P ९ नियादेवीं P १० जाम्बाभिधानः a ११ धवलगृहे कण्ठेश्वरी A BK Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy