SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्रकाशः ] वनराज प्रबन्धः । श्री शीलगुणसूरिनामभिरपराहेऽपि तस्य वृक्षस्य छायामनमन्तीमालोक्य झोलिकास्थितस्य तस्यैव बालकस्य पुण्यप्रभावोऽयमिति विमृश्य जिनशासप्रभावकोऽयं भावीत्याशया वृत्तिदानपूर्वं तन्मातुः पार्श्वात्स बालो जगृहे । वीरमतीगणिन्यां स बालः परिपाल्यैमानो गुरुभिर्दत्त वनराजाभिधानोऽष्टवार्षिको देवपूजाविनाशकारिणां मूषकाणां रक्षाधिकारे नियुक्तः । स तोर्न गुरुभिर्निषिद्धोऽपि चतुर्थोपायसाध्यांस्तानेवं जगौ । तस्य जातके राजयोगमवधार्यायं महानृपतिर्भावीति निर्णीय स मातुः पुनः समर्पितो मात्रा समं कस्यामपि पल्लिभूमौ स्वमातुलस्य चौरवृत्त्या वर्तमानस्य सर्वत्र घाटी प्रपातमकरोत् ॥ १९ १६ कदाचित् काकरग्रामे खात्रपातनपूर्वं कस्यापि व्यवहारिणो गृहे धनं मुष्णन्दधिभाण्डे करे पतिते सत्यत्र भुक्तोऽहमिति विचिन्त्य तत्सर्वस्वं तत्रैव मुक्त्वा विनिर्ययौ । परस्मिन्नहनि तद्भगिन्या श्रीदेव्या निशि गुप्तवृत्त्या सहोदरवात्सल्यादाहूतः । तया भोजनवस्त्रदान पूर्वकमुपकृतो पट्टाभिषेके भवत्यैव भगिन्या तिलकं विधेयमिति प्रतिपेदे ॥ १७ अथान्यस्मिन्नवसरे चरटैवृत्त्या वर्तमानस्य चौरैः क्वाप्यरण्यप्रदेशे रुद्धो जम्बभिधानो वणिग्तं चौरत्रयं दृष्ट्वा बाणपञ्चकमध्याद्वाणद्वयं भजंस्तैः पृष्टं इति प्राह भवत्रितयाधिकं बाणद्वयं विफलमित्युक्ते तदुक्तं चलवेध्यं" बाणेनाहत्य तैः परितुष्टैरात्मना सह नीतस्तद्याधविद्याचमत्कृतेन श्रीवराजेन मम पट्टाभिषेके त्वं महामात्यो भावीत्यादिश्य विसृष्टः ॥ १ शीलगणि A शीलगण B २ गणिना AK ३ प्रतिपाट्यमानः B ४ बाणैर्निघ्नन् A B बाणेन a ताच्छाणेननिघ्नन bc ५ पल्लीभूमौ a c * अत्र A आदर्शे निम्नलिखितमधिकं-चौरस्वभावे लग्ने न सुखं कदाचिदपि । यतःनक्तं दिवा न शयनं प्रकटा न चर्या स्वैरं न चान्नजलवस्त्र कलत्रभोगः । शंकानुजादपि सुतादपि दारतोऽपि लोकस्तथापि कुरुते ननु चौर्यवृत्तिम् ॥ ( पद्यमिदं कविरामचन्द्रकृ तकौमुदीमित्राणन्दनाटकस्थं अं. ७ श्लो. ३ ६ स्नानभोजनवस्त्रदानपूर्वकं A BK भोजनवसुदानपूर्वक P ७ चौरवृत्या A ८ जाम्ब a ९ तेन पृष्टः b १० भवेत् ७ ११ बलवेभ्यं P १२ तो A Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy