SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १९३ प्रकाशः] प्रकीर्णकप्रबन्धाः । तन्नासीरवीरैः सह समरसंरम्भे म्लेच्छानों जायमाने निर्भरनिद्रायमाणस्तुरुकैर्नृपतिर्निबध्यं स्वसौधं नीतः । पुनरप्येकादश्युपवासपारणके नृपतेर्दे. वार्चनावसरे म्लेच्छराजेन प्रहितं तत्र पात्रीकृतमांस्पाकं गुरूदरान्तर्नियुज्य तदैव देवताराधनवैयग्र्ये सति, शुनापन्हियमाणे तस्मिन् पिशिते, किं न रक्षसि यामिकरित्यभिहितः करभीणां सप्तशत्या दुर्वहं यत्पुरा मम महानसं तत्साम्प्रतं दुर्दैवयोगादीदृशी दुर्दशां प्राप्तमिति कौतुकाकुलितमानसो विलोकयन्नस्मीति तेनोक्ते, किं काचिदद्यापि त्वय्युत्साहशक्तिरवशिष्यत इति तैर्विज्ञप्ते, यदि स्वस्थाने गन्तुं लभे तदा दर्शयामि वपुःपौरुषमिति यामिकैर्विज्ञप्तो म्लेच्छभूपतिस्तत्साहसंदिदृक्षुस्तदीयां राजधानीमानीय पृथ्वीराज तत्र राजसौधे यावदभिषेक्ष्यति तावत्तत्र चित्रशालायां शूकरनिवहैर्हन्यमानान् म्लेच्छानालोक्यामुना मर्माभिधातेनात्यन्तपीडितस्तुरुकपार्थिवः पृथ्वीराज कुठारशिरश्छेदपूर्व संजहार । इति नृपतिपरमर्दिजगदेवपृथ्वीपतीनां प्रबन्धाः ।। १९ अथ शतानन्दपुरे परिखीभूतजलधौ श्रीमहानन्दो नाम राजा मदनरेखेति तस्य राज्ञी, अन्तःपुरप्राचुर्यात् , पतिसंवननकर्मनिर्माणव्याप्त्या, तां प्रति विरक्तचेता नृपतिरिति नानाविधान् वैदेशिकान् कलाविदश्च पृच्छन्ती कस्यापि यथार्थवादिनः सत्यप्रत्ययस्य कार्मणकर्मणे किञ्चित्सिद्धयोगमासाद्य तत्प्रयोगासरे । मन्त्रमूलबलात्प्रीतिः पतिद्रोहोऽभिधीयते । इति वाक्यमनुस्मरन्ती सतीव तद्योगचूर्ण जलधौ न्यधत्त । अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव इति तद्भेषजमाहात्म्यावशीकृतो वारिधिरेव मूर्तिमान् निशि तामुपेत्य रेमे । इत्थमकस्मादाधानवतीं प्रतीकैस्तद्विधैर्निीय सकोपो भूपो यावत्तस्याः प्रवासादिदण्डं कमपि विमृशति १ म्लेच्छाधिपतीनां P २ लभेत P ३ प्राचुर्यात्पतिसंवननकर्मनिर्माण व्याप्रत्या P ४ प्रयोजनावसरे D Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy