SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १९२ प्रबन्धचिन्तामणिः। [पञ्चमः कार्यं पर्याप्तप्रायं मन्यमानस्तमराति लीलया निगृह्य यथागतमाजगाम । विभातभूयिष्टायां निशि विपन्नं स्वामिनं निरीक्ष्य परसैन्यं पलायांचक्रे । स तुझसुभटस्तुङ्गप्रकृतिनृपतेः कदाचिन्न ज्ञापयामास । कस्मिन्नप्यवसरे राजमान्यतया नितान्तपरिचितां तुङ्गपुत्रवधूमवधूतमङ्गलवलयामालोक्य संभ्रमात् पतिना पृच्छयमानोऽपि पयोधिरिव गम्भीरतया मौनमर्यादया किमप्यविज्ञपयन् निजशपथदानपूर्व पृष्टो निजगुणपातकं दुष्करमिति तथापि प्रभोरभ्यर्थनया निवेद्यमानमस्तीत्यभिधाय तद्वृत्तान्तं प्रत्युपकारभीर्यथावस्थितं निवेदयामास । २०) इयमुच्चधियामलौकिकी महती कापि कठोरचित्तता। उपकृत्य भवन्ति निःस्पृहाः परतः प्रत्युपकारशङ्कया ॥ इति तुङ्गसुभटप्रबन्धः । -१८ अथ कदाचित्तस्य म्लेच्छपतेः सूनुनृपतिः पितुर्वैरस्य स्मरन् , सपादलक्षक्षितिपतिविग्रहकाम्यया सर्वसामग्र्या समुपेतः पृथ्वीनाथस्य नासीरवीरधनुर्धरशरैः प्रावृषेण्यधाराधरधारासारैरिव तस्मिन्ससैन्ये त्रासिते पृथ्वीराजस्तदा तदानुपदिकीभावं भजन, महानसाधिकृतपञ्चकुलेन विज्ञपितं करभीणां सप्तशत्यापि महानसपरिच्छदः सुखेन नोह्यते ततः कियतीभिः करभीभिः प्रभुः प्रसीदत्विति विज्ञप्तो नृपतिर्लेच्छपतिमुच्छेचे भवदभ्यर्थिताः करभीः प्रसादीकरिष्यामीति तत्संबोध्य पुनः प्रयाणं कुर्वन् सोमेश्वरनाम्ना प्रधानेन भूयो भूयो निषिध्यमानः, तत्पक्षपातम्रा त्या नृपतिना निगृहीतकर्णः, तदत्यन्तपराभवात् तस्मिन् प्रभौ सामर्षोम्लेच्छपति प्राध्य तदभिभवप्रादुःकरणतस्तान् विश्वस्तान् पृथ्वीराजस्कन्धावारसन्निधौ समानीय पृथ्वीराजराजस्यैकादश्युपवासकृतपारणादनु सुप्तस्य १ सुखेनोह्यते नातः । २ मुच्छेद्य तदौष्ट्रिकमाछिद्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy