SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबन्धः। प्रकाशः] १२९ गजात्कलहपञ्चाननकुम्भे पदं ददानः श्रीकुमारपालविनाशाशया, तेन नियन्त्रा पश्चात्कृते गजे स भूमौ पतितस्तलवर्गीयपदातिभिरधारि । तदनु चौलुक्यभूपतिना श्रीमदानाकनामा सपादलक्षनृपः शस्त्रसज्जो भवेत्यभिहितस्तन्मुखकमलं प्रति औचित्याच्छिलीमुखं व्यापारयन् प्रधानक्षत्रियो ऽसीति सोपहासश्लाघया तं वञ्चयित्वा नाराचेन निर्भिद्य कुम्भीन्द्रकुम्भेपातयित्वा जितं जितमिति ब्रुवाणः स्वयं पोतं भ्रमयांचकारेति सर्वेषां सामन्तानां सर्वानपि तुरङ्गमान् स नृपतिराक्रम्य जग्राह । इति वाहड. कुमारप्रबन्धः ॥ ६ तदनु चौलुक्यराजेन कृतज्ञचक्रवर्तिना आलिङ्गकुलालाय सप्तशतीग्राममिता विचित्रचित्रकूटपट्टिका ददे । ते तु निजान्वयेन लजमानाः अद्यापि सगरो इत्युच्यन्ते । यैः छिन्नकण्टकान्तरे प्रक्षिप्य क्षितिपो रक्षितस्तेऽङ्गरक्षपदे प्रतिष्ठिताः। ७ अथ सोलाकनामा गन्धर्वोऽवसरे गीतकलया परितोषिताद्राज्ञः षोड. शाधिकं द्रम्माणां शतं प्राप्य तेन सुखभक्षिकां विसाध्य बालकांस्तर्पयन् राज्ञा कुपितेन निर्वासितः । ततो विदेशं गतस्तत्रत्यभूपतेस्तकलया रञ्जितात्प्रसादप्राप्तं गजयुगलमानीयोपायनीकुर्वन् चौलुक्यभूपालेन सम्मानितः । कदाचित्कोऽपि वैदेशिकगन्धर्वो मुषितोऽस्मि मुषितोऽस्मीति तारं बुम्बारवं कुर्वाणः, केन मुषितोऽसीति राज्ञाभिहितो मम गीतकलया समीपागतेन, मया कौतुकाद्गलन्यस्तकनकशृङ्खलेन मृगेण त्रस्यता मृगेन्द्रेणेति विज्ञपयामास । स तदनु भूपतिना समादिष्टः सोलाभिधानो गन्धर्वराडटवीमटन् स्फीतगीताकृष्टिविद्यया कनकशृङ्खलाकितगलं मृगं नगरान्तः सभानीय तस्य भूपतेर्दर्शयामास । अथ तत्कलाकौशलचमत्कृतमानसः प्रभुः श्रीहे. . १ चाहड L २ सागरा A bL ३ तस्य चौलुक्यराज्ञः पटाभिषेकानन्तरं स सोलाकनामा M c ४ सकरेणुमारुह्य वि. c ५ सामीप्यमुपेयुषा कौतुकार्पितगल शृङ्खलेन. b I. ६व्यस्यता इति विज्ञ-० Ka M ७ गले खेलत्कनकशृङ्खलं D Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy