SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२८ प्रबन्धचिन्तामणिः। [ चतुर्थः ६ महं० उदयनदेवस्य पुत्रो वाहडनामा कुमारः श्रीसिद्धराजस्य प्रतिपन्नपुत्रः श्रीकुमारपालदेवस्यावज्ञामेव मन्यमानः सपादलक्षीयभूपतेः पत्तिभावं बभार । तेन श्रीकुमारपालभूपालेन सह विग्रहं चिकीर्षणा तत्रत्यं सकलमपि सामन्तलोकं लञ्चोपचारदोनैः स्वायत्तीकृत्य दुर्वारस्कन्धावारोपेतं सपादलक्षक्षोणीपतिं सहादाय देशसीमान्तमागतः । अथ चौलुक्यचक्रवर्ती अभ्यमित्रीणतया स्कन्धावारसमीपे निजं चमूसमूहं निवेशयामास । निर्णीते समरवासरे, निष्कण्टके क्रियमाणे सीमनि, सज्जीक्रियमाणायां चतुरङ्गसेनायां चउलिङ्गनामा पट्टहस्तिनो हस्तिपकः कस्मिन्नप्यागसि नृपेणाक्रुश्यमाणः क्रोधादङ्कुशं तत्याज । अथ सामलनामाऽमात्रगुणपात्रं महामात्रं पुष्कलवसुदानपूर्वकं तत्पदे नियोजितः सन् राज्ञा स्वक. लहपञ्चानननामानमनेकपं प्रक्षरितं कृत्वा तदुपरि नृपासनं निवेश्य तत्र षट्त्रिंशदायुधानि नियोजयन्सकलकलाकलापसंपूर्णः कलापके चरणौ नियोज्य स्वयमारूढवान् ।तदासनस्थश्चौलुक्यभूपालोऽपि संग्रामाधिकृतपुरु पैरुत्थापनिकां कार्यमाणेषु वाहडकुमारभेदादाज्ञाभङ्गकारिषु, इति सैन्यविप्लवमाकलय्य तं निषादिनमादिदेश पुरो गन्तुं, सन्मुख सेनायां सपादलक्षक्षितिपतिमतङ्गजं छत्रचामरसङ्केतादुपलक्ष्य विघटिते कटकबन्धे मयैवैकाकिना योद्धव्यमिति निर्णीय तेनाधोरणेन स्वसिन्धुरं तत्सन्निधौ नेतुमादिशन्नपि तमपि तथाऽकुर्वाणं विलोक्य त्वमपि विघटितोऽसीत्यादिशंस्तेन विज्ञपयांचके । स्वामिन्कलहपञ्चाननो हस्ती सामलनामा हस्तिपकश्च द्वयं युगान्तेऽपि न विघटते परं परस्मिन्कुम्भिकुम्भे बाहडनामा कुमारस्तारध्वनिरधिरूढोऽस्ति यस्य हक्कया हस्तिनोऽपि भज्यन्ते इत्युक्त्वोत्तरीयाञ्चलयुगलेन सिन्धुरश्रवणौ पिधार्यं स निजं गजं प्रतिगजेन संघट्टयामास । अथ बाहर्डः पूर्वमात्मसात्कृतं चउलिङ्गनामानमारोहकं जानन् कृपाणपाणिनिज १ चाहडनामा ।। २ आज्ञामवमन्यमानः CM ३ दानादिना bL ४ दुकलवस्त्रदानपूर्वकं K H ५ विघटयिष्यते A ६ चाहडनामा L ७ युगलं सिन्धुरश्रवणयोरधिरोप्य L८ चाहट L Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy