SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ४२ जैनकुमारसंभवं [प्रथमः धत्तां यशोऽस्याखिललोलगर्व सर्वस्वसर्वङ्कषताभिमानम् । गुणैदृढयूंढघनैर्निबद्ध, मपि त्रिलोकाटनलम्पटं यत् ॥ ७२ ॥ धत्तां यशो० अस्य भगवतो यशः अखिललोलगर्वसर्वख६ सर्वकषताभिमानम् , अखिलाः समस्ता लोलाश्चपला ये पदार्थास्तेषां यद्गर्वसर्वखं तस्य सर्वकषता सर्वोन्मूलनता तस्याभिमानं अहङ्कारं धत्तां बिभर्तु । कोऽर्थः? भगवतो हि यशस्त्रिभुवने ९सर्वचपलपदार्थेभ्योऽप्यतिचपलत्वेन विश्वं व्यामोति स्म । यद् यशो गुणैरौदार्यधैर्यगाम्भीर्यचातुर्यमाधुर्यादिभिर्दवरकैः वा निबद्धं बद्धमपि त्रिलोकाटनलम्पटं विश्वभ्रमणारसिकं वर्तते । किं१२ लक्षणैर्गुणैः ? दृढव्यूढधनैः दृढा निश्चलाश्च व्यूढा विस्तीर्णाश्च धना निचिताश्च दृढव्यूढघनास्तैदृढन्यूढघनैः ॥ ७२ ॥ स एव देवः स गुरुः स तीर्थ, १५ स मङ्गलं सैष सखा स तातः। स प्राणितं स प्रभुरित्युपासा मासे जनस्तद्गतसर्वकृत्यैः ॥७३॥ १८ स एव देवः० जनैर्लोकः स एव भगवान् इति अमुना प्रका रेण उपासामासे सेव्यतेस । उपासामासे इति क्रियापदं अष्टसु. स्थानेषु संयोज्यते । स पुनः भगवान् देव इति चतुःषष्टीन्द्र२१ सुरासुरनरप्रभृतिलोकैः सेव्यपादारविन्दत्वात् । स भगवान् गुरु रिति लोकानां आचारविचारव्यवहारकलाविद्याशिल्पविज्ञानादि२३ प्रकाशकत्वात् । स जिनस्तीर्थमिति "अगाधे विमले शुद्धे सत्य Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy