SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सर्गः ] टीका सहितम् ४१ कीर्त्यमृतस्य पानात्, नाकिलोके खर्गिलोके, तृप्यति तृप्तिं प्राप्नुवति सति ॥ ६९ ॥ मेरौ नमेरुद्वतले तदीयं, यशो हयास्यैरुपवीण्यमानम् । श्रोतुं विशालाऽपि सुरैः समेतैः, सङ्कीर्णतां नन्दनभूरलम्भि ॥ ७० ॥ मेरौ नमेरुद्रुतले० सुरैर्देवैर्विशालापि विस्तीर्णापि नन्दनभूः नन्दनवनभूमिः सङ्कीर्णतामलम्भि सङ्कीर्णत्वं प्रापिता । किंलक्षणैः सुरैः ? तदीयं तस्य भगवतो यशः श्रोतुं आकर्णयितुं समेतैर्मि- ९ लितैः । किंलक्षणं यशः ? मेरौ मेरुपर्वते नमेरुदुतले नमेरुनाम्नो वृक्षस्य तले, हयास्यैः किंनरैरुपवीण्यमानं वीणया गीयमानम् ॥ ७० ॥ यशोऽमृतं तस्य निपीय नागाङ्गनास्यकुण्डोद्भवमद्भुतेन । शिरो धुनानस्य भुजङ्गभर्तु - भूभार एवाभवदन्तरायः ॥ ७१ ॥ ३ Jain Education International For Private & Personal Use Only १२ 2 यशोऽमृतं • भुजङ्गभर्तुः शेषनागाधिराजस्य, अद्भुतेन आश्चर्येण, शिरो धुनानस्य शीर्षं धुनतः सतः, भूभार एव अन्तरा - १८ योऽभवत् । किं कृत्वा ? तस्य स्वामिनो यशोऽमृतं निपीय पीत्वा, किंविशिष्टं यशः ? नागाङ्गनाऽऽस्यकुण्डोद्भवम्, पातालकन्याया: मुखमेव कुण्डं तस्मादुत्पन्नम्, न च कुण्डेष्वमृतं वर्तत इति वचनात् ॥ ७१ ॥ S' २२ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy