SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्रीजैनधर्मवरस्तोत्रम् अकुंपाशांधवीमश्रे-रथु_तिर्मरल्लियान् । आद्यन्ताविह संयोज्य, ते भवन्तु सुखाय ते ॥ ८॥-अनु० संद्योगसंश्लेषविशेषसौख्यं, प्रामोति भावी जिनमुख्यभक्तेः । धर्म विना नैव सुखस्स लेश, इतीह मे धर्मधनैरभाणि ॥ ९॥-उप० इति सरससुवाक्यैः कर्णपर्णैः पवित्रै निहितहितविचित्रैजैनधर्मोद्यमोक्तैः । पतिमुखकमलोत्थैर्या प्रबुद्धास्ति धन्या श्रयति सुकृतकृत्यं जङ्गमा सापि लक्ष्मीः॥१०॥ मालिनी इति भवचनानि । मनोरमाऽप्यवसरे भानुं भर्तारं सम्बोधयति । तथाहि जीवितेश ! जिनराजपूजनं, प्राणनाथ ! परमेष्ठिकीर्तनम् । आर्यपुत्र ! मुनिराजसेवनं, स्याटुंदीश ! शिवसौख्यसाधनम् ॥१॥-रथोद्धता सेव्यते यदि जिनेन्द्रशासनं, प्राप्यते शिवदरत्नकत्रिकम् । अन्यशासनगते च लभ्यते, संसृतिभ्रमणमेव केवलम् ॥२॥-रथो० यतः गम्यते यदि मृगेन्द्रमण्डलं, लभ्यते करिकपोलमुक्त(मौक्ति)कम् । जम्बुकालयगतेऽपि लक्ष्यते, वत्सपुच्छखुरचर्मखण्डितम् ॥ ३ ॥-रथो० इच्छतीश ! परशासने जनो, ब्रह्म निश्चलमनश्वरं वरम् । देवतत्त्वगुरुतत्त्वधर्मिता-लक्षणेन गलिते कथं यतः॥४॥-रथो० अविवेकिनि भूपाले, करोत्याशां समृद्धये । योजनानां शतं गन्तुं, करोत्याशां स मृद्धये ॥५॥-अनु० अन्त्यचरणे मृदः-मृत्तिकायाः हयः-अश्वः । समृद्धय इति स्पष्टम् । स्यात्पदाङ्कितसमस्तवस्तुकं, मञ्जुलं जिनमतं नयोज्वलम् । गर्वमन्दिरमहं जयाम्ययं, कोऽत्र वक्यपि तथोत्तरं यथा ॥६॥-रथो० याहि शूकर ! भद्रं ते, ब्रूहि सिंहो मया जितः। पण्डिता एव जानन्ति, सिंहशूकरयोर्बलम् ॥७॥-अनु० , आधान्तपादसम्मीलने 'अरकुन्थुपार्श्वशान्तिधर्मवीरमलिश्रेयान्' इति । २ शुभपतेः शुभस्त्रियाः इत्यादियोगः संयोगः, तस्य श्लेषः-सङ्गमः। ३ भावी भवी इति शब्दप्रभेदः, प्राणीत्यर्थः। दृदयेश्वर!। ५ सुभाषितरत्नभाण्डागारे (पृ० २४१) तु पाठो यथा "गम्यते यदि मृगेन्द्रमन्दिरे लभ्यते करिकपोलमौक्तिकम् । जम्बुकालयगतेन लभ्यते वत्सपुच्छखुरचर्मखण्डनम् ॥" धर्मता' इति क-पाठः। . स्यात्पदमनेकान्तयोतकं तेन छक्षितं सकलवस्तु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy