SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रीभावप्रभसरिकृतम् ततो द्वावपि गृहं गतौ खाम्यां स्वाभ्यां मातरपितराभ्यां ज्ञातवृत्तान्ताभ्यां मिथः परिणायितौ द्विदेहावेकजीवाविव बभूवतुः । जातिस्मरणत्वात् पूर्वाभ्यसितं काव्यकरणसंस्कृतजल्पनेन मिथो विनोदं कुर्वाते स्म । लोके सौभाग्यभाजनं जातौ प्रेमरससागरनिमनौ, सुसंयोगो धर्मेणैव प्राप्यत इत्यागमोक्तेः । तयोरवसरे परस्परं प्रेमालापा धर्मयुक्ता एव भवन्ति । तथाहि रात्र्यवसाने भानुः स्वस्त्री प्रति प्राह "सुकोमले ! चन्द्रसमानवक्रे, प्रिये! वदन्ती मधुरां च वाणीम् । सम्यग् जिनेन्द्रसरणाय शीघ्र-मुत्तिष्ठ जैनी रजनी जगाम ॥१॥-उपजातिः कुर्वन्ति सत्साधुगणाः स्वकृत्यं, पठन्ति शिष्या जिनभाषितानि । ध्यायन्ति शिष्टाः परमेष्ठिमत्रं, मा शेष्व बाले ! रजनी जगाम ॥२॥"-उप० शुकाः सुपुण्यं जिनराजनाम, पठन्ति सत्काञ्चनपञ्जरस्थाः। भद्रे ! तथा स्पर्धितसारिकापि, त्यज प्रमादं रजनी जगाम ॥३॥-उप० एते पठन्ति कृतिनो बत जैनरक्षा मेते पठन्ति जिननिर्मलनामपतीः । एते पठन्ति जिनशाश्वततीर्थमाला मुत्थीयतां सुनयने! रजनी जगाम ॥४॥-वसन्ततिलका मार्गे मार्गे देवयोत्कारकामा, यान्त्यायान्ति श्रद्धया श्राद्धमुख्याः। चैत्ये चैत्ये श्रूयते घण्टघोषः, श्रव्यो नव्यो मुञ्च निद्रां महेले ॥५॥-शालिनी एते व्रजन्ति हरिणास्तृणभक्षणाय चूणि विधातुमथ यान्ति हि पक्षिणोऽपि । मार्गस्तथापि सुवहः किल शीतलश्च शय्यां विमुञ्च महिले! रजनी जगाम ॥ ६॥-वसन्ततिलका श्रोत्रयोः सुमुखि! ते सुधा वनं, नेत्रयोरपि तदेव जीवनम् ।। मास एव निवसस्यविन्दुना, चन्दनेन परिपूरयान्तरम् ॥ ७॥"-रथोद्धता वनमध्ये चकारपूरणात् वचनं, पुनः वनमध्ये दकारपूरणात् वदनं, अथ मासे मध्ये नकारपूरणात् मानसे मनसि हे स्त्रि! त्वं निवससि । आन्तरं चन्दनेन पूरय । कथंभूतेन चन्दनेन ? अबिन्दुना-बिन्दुरहितेन । शेषं स्पष्टमिति ॥ अथवा पाठान्तरं श्रोत्रयोर्जिनपते सुधा वनमित्यादि काव्यं शेषं तथैव पठनीयम् । हे जिनपते! तव वचनं श्रोत्रयोः सुधा नेत्रयोः वदनं जीवितं । हे जिन! त्वं मानसे वससि इत्यसिन् पक्षेपि सर्व योजनीयमिति ॥ १ ललने!। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy