SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ २८ श्रीजैनधर्मवरस्तोत्रम् त्रदानमित्यर्थः । तु-पुनः कृपादिपदतः त्रिविधं दानम्-अनुकम्पादानम् उचितदानं कीर्तिदानं इति त्रिकं भुक्त्यै-भोगाय भवति । अत्र-लोके जैनो-जैनगीतार्थो वेत्ति । एतद् विवेचनं सर्वे जानाति । परो मिथ्यात्वी न वेत्ति । अत्र दृष्टान्तेन द्रढयति । किलेति सत्ये । नव्यनेत्रः-प्रशस्वचक्षुः पुरुषः धर्मरश्मेः-श्रीसूर्यस्य रूपं किं नहि प्ररूपयति ? अपि तु कथयत्येव । नहि इति यक्षरमखण्डमव्ययम् । इति सूत्रार्थः॥ अथाभयदानलक्षणमाह "त्रिधा मनोवाक्तनुभिस्त्रिधैषु स्वान्यानुमत्या करणादिभिश्च । यद् वर्जनं जीवगणे वधस्य जिनैस्तदेवाभयदानमुक्तम् ॥ १॥-उपजातिः यद् वय॑तेऽमीषु वधस्त्रिधा तत् पर्यायनाशादथ दुःखक्लप्तेः । मनोऽर्तितो वा त्रिजगत्प्रियं तत् तीर्थङ्करेणाभयदानमुक्तम् ॥ २॥-उप० धन्येन येनाभयदानमङ्गि बजाय दत्तं किल तेन तस्मै । किं किं न दत्तं यदहो त्रिलोक्यां न जीवितादिष्टतमं समस्ति ॥३॥-उप० सर्वेऽपि जीवाहतयोऽत्र जीवा स्ततो मिथोऽप्यस्ति भयं न केषाम् । तद् येन भेजे विरतिस्त्रिलोक्यां तेनाभयोद्घोषणमेव तेने ॥ ४ ॥-उप० वित्तादिदानप्रभवे (वा) भुवोऽन्तः परोपकारा न कति प्रतीताः । अमी शतांशेऽपि समीभवन्ति भयार्तजन्तोरभयापणैः किम् ? ॥५॥-उप० पितुः कलाधातुरभीतिदातु___ातुश्च किं प्रत्युपकारकुर्म(कर्म?)। इति स्मरन्तो हृदि केऽपि खेदं तदंहिभत्त्यैव यदि क्षिपन्ति ॥ ६॥"-उप० १जीवा आहृतिः-आहारो येषां ते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy