SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ २७ श्रीभावप्रभसूरिकृतम् वृद्धो याति गृहीत्वा दण्डं तदपि न मुश्चत्याशा पिण्डम् ॥ १॥"-पादाकुलकम् मुखं लोलल्लालं विगतदशनास्तेऽपि दशना न विस्पष्टा दृष्टिर्जितसितकरः केशनिकरः । गतप्राणः पाणिर्वपुरुपचितास्थिस्थपुटितं न मृग्यं वैराग्यं तदपि कपिलोलेन मनसा ॥२॥-शिखरिणी पुरीषशूकरः पूर्व, ततो मदनगर्दभः । जराजरगवः पश्चा-न कदापि पुमान् पुमान् ॥३॥"-अनु० ततो विषयान् मुक्त्वा नित्यमर्हन्तमेव ध्यायति स्म । यतः "नागो भाति मदेन के जैलरुहैः पूर्णेन्दुना शर्वरी ___ शीलेन प्रमदा जवेन तुरगो नित्योत्सवैर्मन्दिरम् ।। वाणी व्याकरणेन हंसमिथुनैनद्यः सभा पण्डितैः सत्पुत्रेण कुलं नृपैर्वसुमती लोकत्रयं चाहता ॥१॥"-शार्दूल. इति । प्रान्ते समाधिना कालं कृत्वा सौधर्मे द्वौ देवी जातो, क्रमेण सिद्धिं गमिष्यत इति धर्मसामग्रीप्राप्त्यधिकारे हरिटाकलञ्चयकथा सम्पूर्णा ॥ ॥इति वृत्तद्वयस्यार्थः सम्पूर्णः ॥२॥ अथ दानद्वारमाहसूत्रम् दानं द्विधाऽभयसुपात्रगतं सुपोष्यं मुक्त्यै कृपादिपदतस्त्रिविधं तु भुक्त्यै । जैनोऽत्र वेत्ति न परो नहि नव्यनेत्रो रूपं प्ररूपयति किं किल धर्मरश्मेः ? ॥३॥ व्याख्या-अभयसुपात्रगतं द्विधा दानं कर्तृपदं सुपोष्यं सत् मुक्त्यै-मोक्षाय भवति । अभय च सुपात्रं च तयोः समाहारः अभयसुपात्रम् , तद् गतम्-आश्रितं, कर्तरि क्तः । अभयदानं सुपा १ पादाकुलक-लक्षणम् "यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् । अनियतवृत्तपरिमाणसहितं प्रथितं जगत्सु पादाकुलकम् ॥ १॥' २ विगतचर्वणाः। ३ जलम् । ४ कमलैः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy