SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ २४ श्रीजैनधर्मवरस्तोत्रम् चारित्रस्य सप्ततिभेदगाथा - '‘“वंय ५ संमणधम्म १० 'संजम १७, वेयावच्चं १० च भगुत्तीओ ९ । नाणाइतियं ३ व १२ कोहनिग्गहाई ४ चरणमेयम् ॥ १ ॥ - आर्या अथ क्रियायाः सप्ततिभेदगाथा - इति ॥ १ छाया--- “पिंडविसोही ४ समिई ५, भावण १२ पंडिमा १२ य इंदियनिरोहो ५ | 'पेंडिलेहण २५ गुंतीओ ३ अभिग्गहा ४ चैव करणं तु ॥ १ ॥ - आर्या व्रतश्रमणधर्मसंयमवैयावृत्यं च ब्रह्मगुप्तयः । ज्ञानादित्रिकं तपः क्रोधनिग्रहादि चरणमेतत् ॥ २ अहिंसा, सत्यं, अस्तेयं, ब्रह्मचर्य, अपरिग्रह इति पञ्च व्रतानि । ३ क्षान्तिः, मुक्तिः, आर्जवं मार्दवं, शौचं सत्यं, संयमः, तपः, अकिञ्चनं, ब्रह्मचर्यं इति दशविधः श्रमणधर्मः । ४ पृथ्वी काय - अकाय- तेजस्काय - वायुकाय - वनस्पतिकाय - द्वीन्द्रिय-त्रीन्द्रिय- चतुरिन्द्रिय-पञ्चेन्द्रिय-भजीवकाय- प्रेक्षण - उपेक्षा परिष्ठापन प्रमार्जन - मनः- वचन - कायविषयकः संयमः ॥ प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रह रूप पञ्चाश्रवविरमणं, स्पर्शनरसनघ्राणचक्षुः श्रोत्ररूपपञ्चेन्द्रियनिग्रहः, क्रोधमानमायालो भरूपकषायजयः, मनोवाक्कायदण्डन्त्रयविरतिः इति सप्तदशविधो वा संयमः । ५ दशविधं वैयावृत्त्यं यथा - आचार्य - उपाध्याय - तपस्वि-शैक्षक-ग्लान-गण- कुल सङ्घ- साधु-समनोज्ञविषयकम् । ६ सस्त्रीकवसतित्याग-स्त्रीकथाविरतता- स्त्रीनिषद्योपवेशनत्याग-रुयङ्गावलोकन परिहार- कुड्यान्तर-पूर्वक्रीडितप्रणीताशनातिमात्राहारविभूषणवर्जनानि इति नवविधा ब्रह्मगुप्तयः । ७ ज्ञानं दर्शनं चारित्रं च । ८ अनशनं, अवमौदर्य, वृत्तिसंक्षेपः, रसपरित्यागः, कायक्लेशः संलीनता इति षड़विधं बाह्यं तपः, आभ्यन्तरमपि षड़विधं तद्यथा - प्रायश्चित्तं विनयः, वैयावृत्त्यं, स्वाध्यायः, त्यागः, ध्यानम् । ९ छाया पिण्डविशुद्धिः समितिः भावनं प्रतिमा च इन्द्रियनिग्रहः । प्रतिलेखनं गुप्तयः अभिग्रहाश्चैव करणं तु ॥ १० आहारः, उपाश्रयः, वस्त्रं, पात्रं इति एतद्विषया चतुर्विधा पिण्डविशुद्धिः । ११ सम्यक् प्रकारेण ईर्ष्या, भाषा, एषणा, आदाननिक्षेपौ, उत्सर्ग इति पञ्च समितयः । १२ अनित्य- अशरण- संसार - एकत्व - अन्यत्व - अशुचित्व - आश्रव - संवर- निर्जरा- लोक- बोधिदुर्लभता - धर्मस्वाख्याततत्त्वानुचिन्तना इति द्वादश भावनाः । १३ एकमासिकी द्विमासिकी त्रिमासिकी यावत् सप्तमासिकी इति सप्त प्रतिमाः, सप्तानां प्रतिमानामुपरि प्रथमा द्वितीया तृतीया सप्तरात्रिदिवा प्रत्येका इति अष्टमी नवमी दशमी, अहोरात्रिका एकादशी, एकरात्रिकी द्वादशी प्रतिमा । १४ मुखपोतिका १ चोलपट्टः २ कल्पत्रिकं एक ऊर्णामयो द्वौ सूत्रमयौ ३-४-५ द्वे निषये रजोहरणस्य, एका सूत्रमयी अभ्यम्तर निषद्या ६ द्वितीया बाह्या पादप्रोन्नरूपा ७ रजोहरणं ८ संस्तारकः ९ उत्तरपट्टश्च १० । एतेषां देशानामपि स्थानानां प्रतिलेखनायां कृतायामुद्गच्छति सूर्यः । अन्ये तु एकादशं दण्डकमाहुः । दिनस्य प्रहरत्रिकेऽतिक्रान्ते सति उपकरणचतुर्दशकं प्रत्युपेक्षते, तद्यथा - मुखवस्त्रिका, चोलपट्टः, गोच्छुकः, पात्रप्रतिलेखनिका, पानबन्धः, पटलानि, रजखाणं, पात्र स्थापनं, मात्रकं, पतग्रहः, रजोहरणं कल्पन्त्रिकम् । उद्घाटपौरुष्यां सप्तविधपात्र निर्योगप्रत्युपेक्षा भवति । तत्रासने समुपविष्टः प्रथमं मुखवस्त्रिकां प्रत्युपेक्ष्य गोच्छकं प्रत्युपेक्षते, ततः पटलानि, ततः पानकेसरिकां, ततः पात्रबन्धनं, ततो रजस्त्राणं, ततः पात्रं, ततः पात्रस्थापनमिति । १५ मनोगुतिः, वचनगुप्तिः, कायगुप्तिः । १६ द्रव्य - क्षेत्र - काल - भावभेदात् चतुर्धा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy