SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीजैनधर्म वरस्तोत्रम् देवादाढ्यजनेन तेन स पुनर्जीयेत मत्री कचिद् अष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ ४ ॥ रत्नान्याढ्यसुतैर्वितीर्य वणिजां देशान्तरादीयुषां पश्चात्तापवशेन तानि पुनरादातुं कृतोपक्रमैः । लभ्यन्ते निखिलानि दुर्घटमिदं दैवाद् घटेत कचिद् अष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ ५ ॥ राधाया वदनादधः क्रमवशाच्चक्राणि चत्वार्यथे भ्राम्यन्तीह विपर्ययेण तदधो धन्वी स्थितोऽवाङ्मुखः । तस्या वामकनीनिकामिमुखेनैवाशु विध्यत्य हो भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ ६ ॥ कार्पटिकेन रात्रिविगमे श्रीमूलदेवेन च प्रेक्ष्येन्दुं सकलं कुनिर्णयवशादल्पं फलं प्राप्यते । स्वमस्तेन पुनः स तत्र शयितेनालोक्यते कुत्रचित् भ्रष्ट मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ ७ ॥ ease कच्छप हृदमुखे शेवालबन्धच्युते पूर्णेन्दुं मुदितः कुटुम्बमिह तं द्रष्टुं समानीतवान् । शेवाले मिलिते कदापि स पुनश्चन्द्रं कैलाल अष्ट मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ ८ ॥ शैम्या पूर्वपयोनिधौ निपतिता भ्रष्टं युगं पश्चिमा म्भोधौ दुर्धरवीचिभिश्च सुचिरात् संयोजितं तद् द्वयम् । म्या सा प्रविशेद् युगस्य विवरे तस्य स्वयं कापि चेद् भ्रष्ट मर्त्यभवात् तथाप्यसुकृती भूयस्तमानोतिनो ॥ ९ ॥ चूर्णीकृत्य पराक्रमान् मणिमयस्तम्भं सुरः क्रीडया मेरौ सनलिकासमीरवशतः क्षित्वा रजो दिक्षु चेत् । स्तम्भं तैः परमाणुभिः सुमिलितैः कुर्यात् स चेत् पूर्ववद् अष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ १० ॥" १ पुत्तलिकायाः २ ‘र्यपि' इत्यध्यात्मकल्पद्रुमटीकायां पाठः । ३ 'प्राप्य च' इत्यपि पाठोऽध्यात्मकल्पद्रुमटीकायाम् । : ' समालोकते' इत्यध्यात्मकल्पद्रुमटीकायां पाठः । ५ युगकीलकः. ६ 'सा शम्या' इति पाठान्तरमध्यात्म कल्पद्रुम टीकायाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy