SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्रीभावप्रभसूरिकृतम् ७ भक्षणार्थं समागतो यावत्, तावत् शशकरूपं विधाय कुम्भदेवेन व्यन्तरव्याघ्रस्यैवं शिक्षा दत्ता । इति सूरिवचः श्रुत्वा भूपादयः सर्वेऽपि जैना जाताः । व्यन्तरोऽप्युपशमं प्राप्तः । गुरून् प्रणम्य सर्वेऽपि स्वस्थानं गताः । धर्मप्रियोऽपि सूरिसमीपे चारित्रं गृहीत्वा निरतिचारं प्रतिपाल्य केव - लज्ञानं प्राप्य मोक्षं जगाम । इति द्रव्यकष्टतो भावकष्टतो धारणाद् धर्मस्तस्योपरि दृष्टान्तोऽयं लिखित इति ॥ अथास्मिन् दुरन्ते चतुर्गतिके सारे संसारे दशदृष्टान्तैर्दुर्लभं मनुष्यभवत्वं दर्शयति । यतः - “न्याग्रोधं दुर्लभं पुष्पं, दुर्लभं स्वातिजं पयः । दुर्लभं मानुषं जन्म, दुर्लभं देवदर्शनम् ॥ १ ॥" - अनु० अथ दशदृष्टान्तगाथा (उत्तराध्ययनटीकायाम् ) - "लग १ पासग २ धने ३, जूए ४ रयणे य ५ सुविण ६ चक्के य ७ । चम्म ८ जुगे ९ परमाणू १०, दस दिŚता मणुअलंभे ॥ १ ॥ " - आर्या दशदृष्टान्तानां काव्यान्याह - १ छाया " विप्रः प्रार्थितवान् प्रसन्नमनसः श्रीब्रह्मदत्तात् पुरा क्षेत्रेऽस्मिन् भरतेऽखिले प्रतिगृहं मे भोजनं दापय । इत्थं लब्धवरोऽथ तेष्वपि कदाऽप्यश्नात्यहो द्विः स चेद् भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ १ ॥ - शार्दूल० स्तम्भानां हि सहस्रमष्टसहितं प्रत्येकमष्टोत्तरं कोणानां शतमेषु तानपि जयन् द्यूतेऽथ तत्सङ्ख्यया । साम्राज्यं जनकात् सुतः स लभते स्याच्चेदिदं दुर्घटं मर्त्यभवात् तथाप्यकृती भूयस्तमानोतिनो ॥ २ ॥ वृद्धा काऽपि पुरा समस्त भरतक्षेत्रस्य धान्यावलिं Jain Education International पिण्डीकृत्य च तत्र सर्षपकणान् क्षित्वाऽऽढकेनोन्मितान् । प्रत्येकं हि पृथक् करोति किल सा सर्वाणि चान्नानि चेद् भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ ३ ॥ सिद्धद्यूतकलाबलाद् धनिजनं जित्वाऽथ हेम्नां भरैचाणक्येन नृपस्य कोशनिवह: पूर्णीकृतो हेलया । चुल्लक (भोजन) पाशकौ धान्यं द्यूतं रतं च स्वप्नं चक्रं च । चर्म युगं परमाणुर्दश दृष्टान्ता मनुजलाभे ॥ २ 'न' इति पाठोऽध्यात्मकल्पद्रुमटीकायाम् । For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy