SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्रीजैनधर्मवरस्तोत्रम् व्याख्या-आचार्य इति कथयति तदाह-हे भवभूत! हे भव्य ! त्वं अभिनम्यजिनेश्वरस्य इमं धर्म कुरु इत्यन्वयः। कथंभूतं धर्मम् ? दानमुख्यं-दानादिकम् । पुनः कथंभूतं धर्मम् ? चतुविधम्-चतुःप्रकारम् , दान-शील-तपो-भावरूपमित्यर्थः । पुनः कथंभूतं धर्मम् ? कल्याणमन्दिरं-श्रेयसां गृहम् । अनेन विशेषणेन मङ्गलशब्दोपन्यासः स्तोत्रस्यादौ कृतः शिष्टाचारत्वात् । पुनः क० धर्मम् ? सम्यक्त्वभूषिततम-सम्यक्त्वेनातिशोभितम् । पुनः क० धर्मम् ? भवाब्धौ-संसारसमुद्रे पोतायमानं-यानपात्रोपमानम् । पुनः क० धर्मम् ? अनश्वरसौख्यहेतुं-अविनाशिमोक्षसुखस्य कारणम् । पुनः क० धर्मम् ? 'हिंसादिदोषरहितं' प्राणातिपात-मृषावादा-ऽदत्तादान-मैथुनपरिग्रहादिभिः सर्वाविरति-देशाविरतिदोषैः रहितं-त्यक्तम् । पुनः क. धर्मम् ? शमाद्यैः-शान्तदान्तादिगुणैः सहितं-युक्तम् । पुनः क० धर्मम् ? 'घातिक्षयात्' ज्ञानावरणीय-दर्शनावरणीयमोहनीया-ऽन्तरायाणां चतुर्णा घातिकर्मणां क्षयाद् उत्पन्नवरकेवलज्ञानदर्शनैः चतुर्विधदेवरचितसमवसरणस्थितैः अष्टादशदोषरहितैः चतुस्त्रिंशदतिशयविराजमानैः अष्टमहाप्रातिहार्यशोभितैः श्रीतीर्थकरैः पञ्चत्रिंशद्गुणयुक्तया वाण्या निगदितं-कथितम् । अत्र घातिक्षयादिति पदेन अन्यशासनछद्मस्थकज्ञानं निरस्तम् । यतः "देवागमनभोयान-चामरादिविभूतयः।। मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ॥ १॥"-अनु० इति सामन्तभद्रा अष्टसाहरूयाम् । पुनः "यथास्थितं वस्तु दिशन्नधीश! न तादृशं कौशलमाश्रितोऽसि । तुरङ्गशृङ्गाण्युपपादयन्यो नमः परेभ्यो नयपण्डितेभ्यः॥१॥"-उपेन्द्रवज्रा इति श्रीहेमचन्द्रविरचितायामयोगव्यवच्छेदद्वात्रिंशिकायां (श्लो०५) । पुनः "पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु । युक्तिमद् वचनं यस्य, तस्य कार्यः परिग्रहः ॥१॥"-अनु० इति हरिभद्राचार्याः । पुनः क० धर्मम् ? महेन्द्रैः-सुरनरनायकैः महितं-पूजितम् । पुनः क० धर्मम् १ 'खर्गेति' स्वर्गे-देवालये अपवर्गेमुक्तौ फलं जातं अस्य इति फलितम् , स्वर्गमोक्षप्राप्तिरूपजातफलम् । पुनः क० धर्मम् ? विवेकैः-अयं पुद्गलधर्मः पृथक्, अयं शुद्धचिदानन्दजीवधर्म इत्यादि भेदज्ञानैहेयोपादेयरूपैः अपि कलितं-ज्ञातं सहितं इति । किलेति सत्यम् । एष अहं-भा १ उपेन्द्रवज्रा-लक्षणम् "उपेन्द्रवना जतजामततो गौ।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy