SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीभावप्रभसूरिवर्यविरचितं श्री'कल्याणमन्दिरा'न्त्यपादसमस्यामय मभिनवकल्याणमन्दिरा'परनामक ॥ श्रीजैनधर्मवरस्तोत्रम् ॥ (खोपज्ञटीकासमलङ्कृतम्) श्रीशारदायै नमः ॥ श्रीमहिमाप्रभसरिगुरुभ्यो नमः ॥ नत्वा पार्श्वजिनेन्द्राय, गुरवे वाणयेऽपि च । कल्याणमन्दिरान्त्याङ्गि-समस्यारचनाश्रितम् ॥१॥-अनुष्टुप् जैनधर्मवरस्तोत्रं, कृतं यन्मयका मुदा । तस्य च क्रियते वृत्तिः, श्रीभावप्रभसूरिणा ॥२॥-युग्मम् सूत्रम्कल्याणमन्दिरमिमं कुरु दानमुख्यं धर्म चतुर्विधमनश्वरसौख्यहेतुम् । सम्यक्त्वभूषिततमं भवभृद् ! भवाब्धौ ___ पोतायमानमभिनम्यजिनेश्वरस्य ॥ १ ॥ वसन्ततिलका हिंसादिदोषरहितं सहितं शमाद्यै___तिक्षयान्निगदितं महितं महेन्द्रैः। वर्गापवर्गफलितं कलितं विवेकैस्तस्याहमेष किल संस्तवनं करिष्ये ॥२॥ युग्मम् १ अनुष्टुप्-लक्षणम् "श्लोके षष्ठं गुरु ज्ञेयं, सर्वत्र लघु पञ्चमम् । द्विचतुःपादयोर्हस्वं, सप्तमं दीर्घमम्ययोः ॥१॥" २ युग्म-लक्षणम् "द्वाभ्यां युग्ममिति प्रोक्तं, त्रिभिः श्लोकैर्विशेषकम् । चतुर्भिः कलापकं स्यात् , तदूर्व कुलकं स्मृतम् ॥१॥" ३ 'पोताय! मानममिनम्य जिनेश्वरस्य 'पोताय ! मानमभिनम्यजिनेश्वर! स्य' वेत्यपि पदच्छेदः । ४ वसन्ततिलका-लक्षणम् "उक्ता वसन्ततिलका तभजा जगौ गः।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy