SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ४० अर्थरत्नावली [ अर्थाः ७९७ -८१९] नापि लाजाणशब्देन ४ अर्थाः कार्याः । पूर्व ८ मी० ॥ १२॥ एवं लाजाः - आर्द्रतन्दुलाः पृथुकाः इत्यर्थः तान् अणतीति लाजाणः- पृथुकप्रापको जनः सौख्यं १ असौख्यं २ वा - ददते । एवं पूर्ववत् ४ पूर्व १२ मी० १६ । सर्वे ० ॥ ७९६ ॥ राजा अणः ददते सौख्यम् ॥ ७९७-८०० ॥ अणः-शब्दः सौख्यं असौख्यं च ददते । किं० ? 'राजा' रञ्जयति जनमनांसीति राजा, मधुरगीतादिध्वनिरित्यर्थः । एवं ईसौख्यं इसौख्यं च अददत | अर्थयो० ॥ ८०० ॥ ला जा-नो ! ददते सौख्यम् ॥ ८०१ -८०४ ॥ " जाया जनन्योर्जाबन्तः” इति श्रीविश्वशम्भु (श्लो० ३५ ) वचनात् जाया - जनन्याः नुः - स्तुतिर्यस्य स जानुः; अथवा जया - मात्रया हेतुभूतया नुः- स्तुतिर्यस्य स जानुः; १० अथवा जयेन आ-सामस्त्येन नुः-स्तुतिर्यस्य स जानुस्तत्सम्वोधने हे जानो ! | "ली महेन्द्रे मृते गत्यां ला च लक्ष्मीर्लमम्बरे" इति विश्वशम्भु (श्लो० १०४ ) वचनात् लाइन्द्राः सौख्यं १ असौख्यं २ च ददते । इदं शचीनां बलादीनां च वचनम् ॥२॥ एवं ला- इन्द्रा हे जानो ! ईसौख्यं इसौख्यं च अददत २ ॥ पूर्व २ मी० ४ ॥ एवं सर्वे ० ॥८०४ ॥ ला! जाः नो दद ते सौख्यम् * ॥ ८०५-८१० ॥ ५ १५ हे लाः ! - हे इन्द्राः ! यूयं तेसौख्यं - लक्ष्मी - कामसौख्यं नो दद ॥ १ ॥ एवं नोन दद? अपि तु ददध्वमित्यर्थः ॥ २ ॥ किं० लाः ? 'जाः !' प्रतिपक्षजेतारः ! || २ || एवं हे लाः ! - हे इन्द्राः ! जाः - जेतारः पुरुषाः नः - अस्मभ्यं १ अस्माकं २ वा सौख्यं १ असौख्यं २ वा ददते । अर्थयो० ||४|| पूर्व २ मी० ॥ ६ ॥ सर्वे० ॥ ८१० ॥ लौ ! जा नो ददते असौख्यम् ॥ ८११-८१५ ॥ हे लाः ! - हे इन्द्राः ! जा - जेतारः - अस्मत्पराभवकारिणः प्रतिपक्षाः नः - अस्मभ्यं १ 'अस्माकं २ वा असौख्यं ददते । इदं पराभिभूतदेवानामिन्द्रं प्रति वचनम् ॥२॥ एवं नो-न सौख्यं ददते १ || ३ || एवं हे जाः ! हे जेतृपुरुषाः ! लाः- इन्द्राः नो-न सौख्यं ददते । इदं बलादीनां वचनम् । एवं नो-न असौख्यं ददते । इदं शचीनां वचनम् ||२|| पूर्व ३ मी० ५॥ सर्वे ० ९० ।। ८१५ ।। लाज! आ नो ददते सौख्यम् ॥ ८१६ - ८१९ ॥ "लाच लक्ष्मीर्लमम्बरे" इति विश्वशम्भु (श्लो० १०४ ) वचनात् ला- लक्ष्मीः । हे ज! - हे जेतृपुरुष ! आ इति सम्बोधने । नः - अस्मभ्यं १ अस्माकं २ वा सौख्यं असौख्यं बा २ ददते । इदं भोगिनां योगिनां च वचनम् ॥ ४॥ सर्वे ० ॥ ८१९ ॥ १ 'ज - भा-नो !' इत्यर्थान्तरे । २ 'महेन्द्रे हो' इति पाठान्तरम् । ३'ला जा ! इत्यर्थान्तरे' । २० १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy