SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ [ अर्थाः ७३७-७९६ ] श्रीसमयसुन्दरगणिकृता हे नः !-हे पुरुष! लाजा ईसौख्यं १ ई च पुनः सौख्यं वा अददत । १ । एवं इसौख्यं १ इं च पुनः सौख्यं वा अददत ॥ ४ ॥ अर्थयो । पूर्व १० मीलने ॥ १४ ॥ एवं उ इति सम्बोधने हे न!-बुद्ध ! लाजा ईसौख्यं १ ई च पुनः सौख्यं वा २ अददत । एवं इसौख्यं ई-कामं सौख्यं-सुखं च वा अददत । अर्थयो० ४ । पूर्व १४ मी० ॥१८॥ एवं नःअस्माकं लाजाः अस्मदीयतन्दुलाः ईसौख्यं १ इसौख्यं वा २ अददत अदुरित्यर्थः २। ५ पूर्व १८ मीलने ॥ २० ॥ एवं लाजानः-तन्दुलशकटं ईसौख्यं इसौख्यं वा २ अददत अदुः। पूर्व २० मीलने ॥ २२ ॥ एवं सर्वमीलने ॥ ७३६ ॥ लाजा! नो दद तेसौख्यम् ॥ ७३७-७३८॥ हे लाजाः! हे तन्दुलाः! यूयं तेसौख्यं-लक्ष्मी-कामसुखं नो-न दद । अथवा नो-न दद ? अपि तु अदद्ध्वमित्यर्थः ॥२॥ सर्वे० ॥ ७३८ ॥ लाजा नो ददते सौख्यम् ॥ ७३९-७७६ ॥ एवं यथा सप्तत्रिंशदाः तन्दुलवाचिना लाजशब्देन पूर्व प्रदर्शिताः। तथा "लाजा भ्रष्टधान्ये स्युरक्षते” इति अनेकार्थतिलकवचनात् लाजा-भृष्टधान्यानि तद्वाचिनाऽपि लाजशब्देन सप्तत्रिंशदर्थाः कार्याः । यथा लाजा-भृष्टधान्यानि नः-अस्मभ्यं १ अस्माकं वा २ सौख्यं ददते इत्यादि । एवं सर्वेऽपि ॥ ७७६ ॥ १५ लाज-अनो ददते सौख्यम् ॥७७७-७७८ ॥ "लाजः स्यादातन्दुले । लाजास्तु भृष्टधान्ये स्युाजं पुनरुशीरके” इति श्रीहैमा- . नेकार्थ( का० २ श्लो० ८९-९०)वचनात् लाजानि-वालकाः तेषां अनः-शकटं लाजानःवालकशकटं सौख्यं असौख्यं च ददते । भोगिनां योगिनां चेत्यर्थयोजना । सर्वे०॥७७८॥ लाज-अनः अददत ईसौख्यम् ॥ ७७९-७८० ॥ लाजानो-वालकशकटं ईसौख्यं-लक्ष्मीसुखं १ कामसुखं २ (वा) अददत-अदात् । अर्थयो० ॥२॥ सर्वे० ॥ ७८० ॥ लाजाणः ददते सौख्यम् ॥ ७८१-७९६ ॥ लाजाः-तन्दुलास्तान् अणति-गच्छति गत्यर्थानां प्राप्त्यर्थत्वात् प्रामोतीति लाजाणः । अच्प्रत्ययः तन्दुलपापकः । एवंविधः कोऽपि जनः सौख्यं १ असौख्यं २ च २५ ददते । अर्थयो० ॥२॥ एवं लाजाणः ईसौख्यं इसौख्यं वा अददत । पूर्व २ मी० ॥ ४ ॥ एवं भृष्टधान्यप्रापकवाचिनाऽपि लाजाणशब्देन ४ अर्थाः कार्याः । यथा लाजाणः-भृष्टधान्यप्रापकः सौख्यं असौख्यं च ददते इत्यादि पूर्व ४ मी० ८ । एवं वालकप्रापकवाचि । अर्थान्तरे भददत ईसौख्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy