SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ रघुविलास-नाटकोद्धारः-चतुर्थोऽङ्कः । (सीतां प्रति) स्मेराक्षि ! मां श्रितवती रणरङ्गमल्ल- मालोकयिष्यसि दृशा शबरं कदाचित् । दोर्दण्डमण्डलतृणीकृतशयुद्धे क्रुद्धे पुनर्मयि न ते शबरो न चाहम् ॥ २२ ॥ रावणः-( सविनयम् ) एणाक्षि! स्मरजीवनौषधिलसल्लावण्यपुण्याकृते! सौभाग्यावनि ! मञ्जुभाषिणि ! दलद्वन्धूकमुग्धाधरे!। अस्मिन् भृत्यलवे निवेशय दृशं हृद्यां प्रसीद प्रिये ! लङ्काराज्यमुपास्य भूषय ननु वर्भूर्भुवोवैभवम् ॥ २३ ॥ रावणः -( सखेदम् ) लङ्केश्वरे त्रिदशदर्पहरे विरागो रागस्तु काननचरे जनकात्मजायाः। सौन्दर्य-विक्रम-कला-विभवानपेक्षः प्रेम्णां विचारविमुखः खलु कोऽपि पन्थाः ॥ २४ ॥ (पुनः कलकण्ठं प्रति ) आस्तां कण्ठलयः, कृतं जघनभू-नाभि-स्तनोपासनैः, सीतायाश्चरणारविन्दरजसा मैत्र्याऽपि ये नाश्चिताः। तेषां पामरचित्तचित्रजनकैर्यावापृथिव्योर्जयः ।। कोऽयं नाम वृथा निशाचरपतेःष्णां मदोपप्लवः ? ॥ २५ ॥ रावणः-(सीतां प्रति) एषोऽस्मि प्रणतः कृपां कुरु पुरस्ते देवि ! बद्धोऽञ्जलि दम्भोलिव्रणपत्रलां दशमुखस्यालिङ्गय वक्षस्थलीम् । त्रैलोक्यप्रथितानि तानि चरितान्यष्टापदान्दोलनस्वर्गाधीश-सहस्रबाहुविजयप्रायाणि सत्यापय ॥ २६॥ ॥ इति चतुर्थोऽङ्कः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002798
Book TitleRaghuvilasa Natakoddharah
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages62
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy