SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ रघुविलास - नाटकोद्धारः - चतुर्थोऽङ्कः । रणभुवमधिरूढे यत्र खेलइलानां शरणमरिकुलानां संयमो वा यमो वा । हरिजयमदमैत्रीक्षीवदोर्दण्डखण्डे विजयिनि मयि तस्मिन् का कथा देवतानाम् ? ॥ १७ ॥ रावणः - (कुन्तलकं प्रति ) देव्याः पयोधरभरश्चिर संस्तुतस्य मध्यस्य सेवितुमुपाहितेनीविवृत्तेः । दारिद्रमेष वितरन् परमुद्धतत्व कार्कश्ययोः समुचितं किमु न व्यधत्त ? ॥ १८ ॥ रावणः - ( सीतां प्रति ) यायावरेण किमनेन वनेचरेण मां स्थावरं वरमुपास्ख कुरङ्गनेत्रे ! | किं वा स्तुवे तव पुरश्चतुरस्थितीनां वैदग्ध्यसौरभवती भवती प्रकाण्डम् ॥ १९ ॥ सीता - 'को वि जावरो ? को वि थावरु ? त्ति लक्खणनारायपद्धई करिस्सदि । रावणः - ( सरोषं चन्द्रहासं परामृश्य ) प्रेमावनद्धहृदयः सर्व लङ्केश्वरः सुदति । सोढा । सोढा न चन्द्रहासः पुनरयमुल्लण्ठवृत्तीनाम् ॥ २० ॥ सीता - ( सरोमाञ्चम् ) 'भयवं तिहुअणसिरिनिवास चंदहास ! रक्खसकरफरिसमलिदाए सीदाए देहि च्छित्तं । अवणेहि उत्तमंगं । करेहि दुक्खमुक्खं । रावणः - ( कुन्तलकं प्रति ) सा वीरेषु प्रथमगणना दोर्भृतां सा प्रकाण्डं स्थाम्नां विश्वत्रयविजयिनां जानकी सैव भूमिः । दास्यं यस्यां स्पृहयति जगद्युर्द्ध कण्डूभिषग्भिदर्भिर्बद्धाञ्जलिरहरहः सोऽपि लङ्काधिनाथः ॥ २१ ॥ १९ 1 ) कोऽपि यायावरः ? कोऽपि स्थावरः ? इति लक्ष्मणनाराचपद्धतिः करिष्यति । 2 ) भगवन् त्रिभुवनश्रीनिवास चन्द्रहास ! राक्षस कर स्पर्शमृदितायै सीतायै देहि प्रायश्चित्तम् । अपनय उत्तमाङ्गम् । कुरु दुःखमोक्षम् । १ क्रीडत् । २ उपाहिता - आश्रिता नीविवृत्तिर्येन । त्वमेव प्रधानम् । ४ समरखर्जू वैद्यैः । Jain Education International ३ चातुर्योपेतानां स्त्रीणां मध्ये वैचक्षण्यवती For Private & Personal Use Only www.jainelibrary.org
SR No.002798
Book TitleRaghuvilasa Natakoddharah
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages62
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy