SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसनह । तथा गुरूणां खगुणैर्गुरूणां श्रीधर्मघोषाभिधसूरिराजा । सद्देशनामेवमपापभावां शुश्राव भावावनतोत्तमांगः ॥ ८॥ विषयसुखपिपासोर्गेहिनः कास्ति शीलं, करणवशगतस्य स्यात्तपो वापि कीहक् । अनवरतमदारंभिणो भावनाः का-स्तदिह नियतमेकं दानमेवास्य धर्मः ॥९॥ किंचधर्मः स्फूर्जति दानमेष गृहिणां ज्ञानामयोपग्रहै-स्त्रेधा तद्वरमाधमत्र यदितो निःशेषदानोदयः । ज्ञानं चाद्य न पुस्तकैर्विरहितं दातुं च लातुं च वा, शक्यं पुस्तकलेखनेन कृतिभिः कार्यस्तदर्थोऽर्थवान् ॥१०॥ श्रुत्वेति संघसमवायविधीयमान-ज्ञानार्जनोद्भवधनेन मिथः प्रवृद्धि । नीतेन पुस्तकमिदं श्रुतकोशवृद्ध्यै, बद्धादरश्चिरमलेखयदेष हृष्टः ॥ ११ ॥ यावजिनमतमानुप्रकाशिताशेषवस्तुविस्तारः । जगति जयतीह पुस्तकमिदं बुधैर्वाच्यतां तावत् ॥ १२॥ 10 ॥ शुभं भवतु ॥ ग्रंथांन १३००० प्रमाणं । मंगलं महाश्रीः । लेखक-पाठक-दातार-समस्त्रसंघ-दीर्घायुभवतु ॥ यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ १ ॥ शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥ २॥ भमप्रष्ठि-कटिग्रीवा तच दृष्टिरधोमुखः । कष्टेन लिखितं शास्त्रं यत्वेन परिपालयेत् ॥ ३॥ संवत् १३४९ वर्षे माघसुदि १३ अधेह चावडे श्रे० होना श्रे• कुमरसिंह श्रे० सोमप्रभृति 15 संघसमवायसमारब्धपुस्तकमाण्डागारे ले० सीहाकेन लिखितं ।। [३३] सुश्राविका-बांधी-प्रदत्त-दशवैकालिक-पाक्षिकसूत्र-पुस्तिकाप्रशस्तिः । ___ [प्रदानसमय १३५२ विक्रमाद] श्रीमंदपाटदेशक्षितिराजप्राज्यराज्यधौरेयः । सीमंधर इति मंत्री श्रीकरणिक इह समस्ति पुरा ॥ १ ॥ 20 उन्मीलनुरुलीलस्फूर्जितशीलप्रधानश्रृंगारा । नीभल इति तद्वहिणी गृहनीतिविशारदा जाता ॥२॥ तस्याः स्वीयभगिन्या अगण्यसत्पुण्यकल्पलतिकायाः । सजलजलवाहपटली दत्ता श्रीपुस्तिका शस्ता ॥ ३ ॥ घांधीसुश्राविकया वाचयितुं गच्छसकलसाधूनाम् । सेयं प्रवाच्यमाना विबुधैर्नद्याचिरं कालम् ॥ ४ ॥ श्रीविक्रमत्रयोदशशतद्विपंचाशकस्य (१३५२) वर्षस्य । भाद्रपदाभिधमासे पक्षे....."स्तिका प्रवरे ॥ ५॥ 25 उपकेशवंशीय-संघपति-आशाधर-लेखित-उत्तराध्ययनसूत्रवृत्ति-पुस्तकप्रशस्ति । [लेखनकाल १३५२ विक्रमान्द] ........... [पूर्वपत्रस्य नष्टत्वात् प्रशस्तेरस्याः आधानि १४ पद्यानि विनष्टानि ].............. आशाधरस्तदायः संघपतिः सप्ततीर्थसुप्रथितः । निर्मलंकीर्तिदेशलसंज्ञस्तस्यानुजन्मा च ॥ १५ ॥ * ताइपत्रास्मिका इयं पुस्तिका पत्तने संघसत्कभाण्डागारे विद्यते । द्रष्टव्यम्-पिटर्सन् , रीपोर्ट पुस्तक ५, पृ.६१। + ताडपत्रात्मकं पुस्तकमिदं स्तम्भतीर्थे शान्तिनाथमन्दिरगतभाण्डागारे विद्यमानमस्ति । पिटर्सन, रीपोर्ट पु. १, पृ. ४१ उल्लिखित । [३४] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy